ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्। न्यवेदयन्त वेश्मानि गुणवन्ति महात्मने
तान्प्रभुः कृतमित्युक्ता सत्कृत्य च यथार्हतः । अभ्येत्य चैषां वेश्मानि पुनरायात्सहैव तैः
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः । भुक्ता च सह तैः सर्वैरवसत्तां क्षपां सुखम्
तदा दूतैः समाज्ञाय आयान्तं मधुसूदनम्। धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम्
द्रोणं च सञ्जयं चैव विदुरं च महामतिम् । दुर्योदनं सहामात्यं हृष्टरोमाऽब्रवीदिदम्
अद्भुतं महादाश्चर्यं श्रूयते कुरुनन्दन । स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहेगृहे
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः । पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च
उपायास्यति दाशार्हः पाण्डवार्थे पराक्रमी । स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरोऽहि सः। तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे
स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः । पूजितो हि सुखाय स्यादसुखः स्यादपूजितः
स चेत्तुप्यति दाशार्ह उपचरैररिन्दमः । कृष्णात्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु
तस्य पूजार्थमद्यैव संविधस्त्व परन्तप । सभाः पथि विधीयन्तां सर्वकामसमन्विताः
यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै । तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे
ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम्। ऊचुःक परममित्येवं पूजयन्तोऽस्य तद्वचः
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा। सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे
ततो देशेषु देशेषु रमणीयेषु भागशः । सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः
आसनानि विचित्राणि युतानि विविधैर्गुणैः । स्त्रियो गन्धानलङ्कानारान्सूक्ष्माणि वसनानि च
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च। माल्यानि च सुगन्धीनि तानि राजा ददौ ततः
विशेवतश्च वासार्थं सभां ग्रामे वृकस्थले। विदधे कौरवो राजा बहुरत्नां मनोरमाम्
एतद्विधाय वै सर्वं देवार्हमतिमानुषम् । आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा
ताः सभाः केशवः सर्वा रत्नानि विविधानि च। असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत्
उपप्लाव्यादिह क्षत्तरुपायातो जनार्दनः। वृकस्थले निवसति स च प्रातरिहैष्यति
आहुकानामधिपतिः पुरोगः सर्वसात्वताम्। महामना महावीर्यो महासत्वो जनार्दनः
स्फीतस्य वृष्णिराष्ट्रस्य भर्ता गोप्ता च माधवः । त्रयाणामपि लोकानां भगवान्प्रपितामहः
वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते। आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः
तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने । प्रत्यक्षं तव धर्मज्ञ तां मे कथयतः श्रुणु
एकवर्णैः सुक्लृप्ताङ्गैर्बाह्लिजातैर्हयोत्तमैः। चतुर्यक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश
नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः। अष्टानुचरमेकैकमष्टौ दास्यामि कौरव
दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् । शतमस्मै प्रदास्यामि दासानामपि तावताम्
आविकं च सुखस्पर्शं पार्वतीयैरुपाहृतम् । तदप्यस्मै प्रदास्यामि सहस्त्राणि दाशाष्ट च