नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः। नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः
उपप्लाव्यादथागम्य जनाः पुरनिवासिनः। यथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया
ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम् । अर्चयामासुरर्चार्हं देशातिथिमुपस्थितम्
वृकस्थलं समासाद्य केशवः परवीरहा । प्रकीर्णरश्मावादित्ये व्योम्नि वै लोहितायति
ततो ह्यनुचरान्सर्वानुवाच मधुसूदनः। युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे वयम्
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः । क्षणेन चान्नपानानि ररावन्ति समार्जयन्
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि । रथमोचनमादिश्य सन्ध्यामुपविवेश ह
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः। मुमोच सर्वं योक्तादि मुक्त्वा चैतानवासृजत्
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप । आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः
तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम्। पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम्
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्। न्यवेदयन्त वेश्मानि गुणवन्ति महात्मने
तान्प्रभुः कृतमित्युक्ता सत्कृत्य च यथार्हतः । अभ्येत्य चैषां वेश्मानि पुनरायात्सहैव तैः
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः । भुक्ता च सह तैः सर्वैरवसत्तां क्षपां सुखम्
तदा दूतैः समाज्ञाय आयान्तं मधुसूदनम्। धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम्
द्रोणं च सञ्जयं चैव विदुरं च महामतिम् । दुर्योदनं सहामात्यं हृष्टरोमाऽब्रवीदिदम्
अद्भुतं महादाश्चर्यं श्रूयते कुरुनन्दन । स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहेगृहे
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः । पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च
उपायास्यति दाशार्हः पाण्डवार्थे पराक्रमी । स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरोऽहि सः। तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे
स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः । पूजितो हि सुखाय स्यादसुखः स्यादपूजितः
स चेत्तुप्यति दाशार्ह उपचरैररिन्दमः । कृष्णात्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु
तस्य पूजार्थमद्यैव संविधस्त्व परन्तप । सभाः पथि विधीयन्तां सर्वकामसमन्विताः
यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै । तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे
ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम्। ऊचुःक परममित्येवं पूजयन्तोऽस्य तद्वचः
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा। सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे
ततो देशेषु देशेषु रमणीयेषु भागशः । सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः
आसनानि विचित्राणि युतानि विविधैर्गुणैः । स्त्रियो गन्धानलङ्कानारान्सूक्ष्माणि वसनानि च
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च। माल्यानि च सुगन्धीनि तानि राजा ददौ ततः
विशेवतश्च वासार्थं सभां ग्रामे वृकस्थले। विदधे कौरवो राजा बहुरत्नां मनोरमाम्
एतद्विधाय वै सर्वं देवार्हमतिमानुषम् । आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा