सभायां मधुरा वाचः शुश्रूषन्तस्त्वयेरिताः । कुरूणां प्रतिवाचश्च श्रोतुमिच्छाम माधव
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः । त्वं च यादवशार्दूल सभायां वै समेष्यथ
तव वाक्यानि दिव्यानि तथा तेषां च माधव। श्रोतुमिच्छाम गोविन्द सत्यानि च हितानि च। आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम्
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम्। आसीनमासने दिव्ये बलतेजःसमाहितम्
प्रयान्तं देवकीपुत्रं परवीररुजो दश। महारथा महाबाहुमन्वयुः शस्त्रपाणयः
पदातीनां सहस्रं च सादिनां च परन्तप। भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोपरे
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः। कानि वा व्रजतस्तस्य निमित्तानि महौजसः
तस्य प्रयाणे यान्यसन्निमित्तानि महात्मनः। तानि मे श्रृणु सर्वाणि दैवान्यौत्पातिकानि च
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत । अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम्
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः । विपरिता दिशः सर्वा न प्राज्ञायत किंचन
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत । उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम्
तमःसंवृतमप्यासीत्सर्वं जगदिदं तथा। न दिशो नादिशो राजन्प्रज्ञायन्तेस्म रेणुना
प्रादुरासीन्महाञ्छब्दः खेशरीरमदृश्यत । सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत्
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः । आरुजन्गणशो वृक्षान्परुषोऽशनिनिःस्वनः
यत्रयत्र च वार्ष्णेयो वर्तते पथि भारत । तत्रतत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम्
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः । समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः
संस्तुतो ब्राह्मणैर्गीर्भिस्तत्रतत्र सहस्रशः । अर्च्यते मधुपर्कैश्च वसुभिश्च वसुप्रदः
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः । स्त्रियः पथि समागम्य सर्वभूतहिते रतम्
स शालिभवनं रम्यं सर्वसस्यसमाचितम्। सुख परमधर्मिष्ठमभ्यगाद्भरतर्षभ
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोपणान्। पुराणि च व्यतिकामन्राष्ट्राणि विविधानि च
नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः। नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः
उपप्लाव्यादथागम्य जनाः पुरनिवासिनः। यथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया
ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम् । अर्चयामासुरर्चार्हं देशातिथिमुपस्थितम्
वृकस्थलं समासाद्य केशवः परवीरहा । प्रकीर्णरश्मावादित्ये व्योम्नि वै लोहितायति
ततो ह्यनुचरान्सर्वानुवाच मधुसूदनः। युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे वयम्
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः । क्षणेन चान्नपानानि ररावन्ति समार्जयन्
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि । रथमोचनमादिश्य सन्ध्यामुपविवेश ह
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः। मुमोच सर्वं योक्तादि मुक्त्वा चैतानवासृजत्
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप । आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः
तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम्। पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम्