सा नूनं म्रियते दुःखैः सा चेज्जीवति केशव। तथा पुत्राधिभिर्गाढमार्तामर्चय सत्कृत
अभिवाद्याऽथ सा कृष्ण त्वया मद्वचवाद्विभो । धृतराष्ट्रश्च कौरव्यो राजानश्च वयोधिकाः
भीष्मं द्रोणं कृपं चैव महाराजं च वाह्लिकम्। द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक्
यथावयो यथास्थानं प्रपद्यस्व जनार्दन।' विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्। अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः। अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम्
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् । अब्रवीत्परवीरघ्रं दाशार्हमपराजितम्
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये । अर्धराज्यस्य गोविद विदितं सर्वराजसु
तच्चेद्दद्यादखङ्गेन सत्कृत्यानवमत्य च। प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात्
अतश्चेदन्यथाकर्ता धार्तराष्ट्रोऽनुपायवित्। अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन
एवमुक्ते पाण्डवेन समहृष्यद्वृकोदरः। मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रजन्। धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम्
तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः । वाहनानि च सर्वामि शकृन्मूत्रे प्रमुस्रुवुः
इत्युक्त्वा केशवं तत्र तथा चोह्वा विनिश्चयम्। अनुज्ञातो निववृते परिष्वज्य जनार्दनम्
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः। तूर्णमभ्यगमद्धृष्टः शैब्यसुग्रीववाहनः
ते हया वासुदेवस्य दारुकेण प्रचोदिताः । पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम्
अथापश्यन्महाबाहुर्ऋषीनध्वनि केशवः । ब्राह्या श्रिया दीप्यमानान्स्थितानुभयतः पथि
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः। यथावृत्तानृषीन्सर्वानभ्यभाषत पूजयन्
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः । ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने । ` पितृदेवातिथिभ्यश्च कच्चित्पूता स्वनुष्ठिताः
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः। भगवन्तः क्व संसिद्धाः कोऽवधिर्भवतामिह
किं वा कार्यं भगवतामहं किं करवाणि यः । केनार्थेनोपप्तंप्राप्ता भगवन्तो महीतलम्
एवमुक्ताः केशवेन मुनयः शंसितव्रताः । नारदप्रमुखाः सर्वे प्रत्यनन्दन्त केशवम्
अधश्शिराः सर्पमाली महर्षिः स हि देवलः । अर्वावसुः सुजानुश्च मैत्रेयः शुनको बली
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनस्तथा। आपोदधौम्यो धौम्यश्च आणिमाण्डव्यकौशिकौ
दामोष्णीषस्त्रिषवणः पर्णादो घटजानुकः। मौञ्जायनो वायुभक्षः पाराशर्योऽथ शालिकः
शीलवानशनिर्धाता शून्यपालोऽकृतव्रणः। श्वेतकेतुः कहोलश्च रामश्चैव महातपाः
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्। परिष्वज्य च गोविन्दं सुरासुरपतेः सखा
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः । राजर्षयश्च दाशार्ह मानयन्ति तपस्विनः
दैवासुरस्य द्रुष्टारः पुराणस्य महामते। समेत पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः। सभासदश्च राजानस्त्वां च सत्यं जनार्दनम्
एतन्महत्प्रेक्षणीयं द्रुष्टुमिच्छाम केशव
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव। त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप