किंस्वित्कृत्वा लभते तात लोका- न्मर्त्यः श्रेष्ठांस्तपसा विद्यया च। तन्मे पृष्टः शंस सर्वं यथाव- च्छुभाँल्लोकान्येन गच्छेत्क्रमेण
पुंसः सदैवेति वदन्ति सन्तः
अधीयानः पण्डितंमन्यमानो यो विद्यया हन्ति यशः परेषाम्। तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति
चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि। मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः
न मानमान्यो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात्। सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते
इति दद्यामिति यज इत्यदीय इति व्रतम्। इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः
ये चाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमार्गरुद्धम्। तन्निःश्रेयस्तेन संयोगमेत्य परां शान्तिं प्रत्युः प्रेत्य चेह
चरन्गृहस्थः कथमेति धर्मान्कथं भिक्षुः कथमाचार्यकर्मा। वानप्रस्थः सत्पथे सन्निविष्टो बहून्यस्मिन्संप्रति वेदयन्ति
आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी। मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्याशीलः सिध्यति ब्रह्मचारी
धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च। अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी
स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी। तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः
अशिल्पजीवी गुणवांश्चैव नित्यं जितेन्द्रियः सर्वतो विप्रयुक्तः। अनोकशायी लघुरल्पप्रसार- श्चरन्देशानेकचरः स भिक्षुः
रात्र्या यया वाऽभिजिताश्च लोका भवन्ति कामाभिजिताः सुखाश्च। तामेव रात्रिं प्रयतेत विद्वा- नरण्यसंस्थो भवितुं यतात्मा
दशैव पूर्वान्दश चापरांश्च ज्ञातीनथात्मानमथैकविंशम्। अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून्
कतिस्विदेव मुनयः कति मौनानि चाप्युत। भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम्
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः। ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप
कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः। ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्। तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः
अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः। कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम्
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम्। तथाऽस्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः। आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात्
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम्। असितं सितकर्माणं कस्तमर्हति नार्चितुम्
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः। स च लोकमिमं जित्वा लोकं विजयते परम्
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः। अथ लोकमिमं जित्वा लोकं विजयते परम्
आस्येन तु यदाऽहारं गोवन्मृगयते मुनिः। अथास्य लोकः सर्वोऽयं सोऽमृतत्वाय कल्पते
सामान्यधर्मः सर्वेषां क्रोधो लोभो द्रुहाऽक्षमा। विहाय मत्सरं शाठ्यं दर्पं दम्भं च पैशुनम्। क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित्
नित्याशनो ब्रह्मचारी गृहस्थो वनगो मुनिः। नाधर्ममशनात्प्राप्येत्कथं ब्रूहीह पृच्छते
अष्टौ ग्रासा मुनेः प्रोक्ताः षोडशारण्यवासिनः। द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः
इत्येवं कारणैर्ज्ञेयमष्टकैतच्छुभाशुभम्
कतरस्त्वनयोः पूर्वं देवानामेति साम्यताम्। उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव