अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः । पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः
तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् । मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम्
सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्। यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम्
वाजिभिः शैब्यसुग्रीवमेधपुष्पबलाहकैः । स्नातैः संपादयामासुः संपन्नैः सर्वसंपदा
महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्। सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् । आरुरोह रथं सौरिर्विमानमिव कामगम्
ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः। पृथिवीं चान्तरिक्षं च रथघोषेण नादयन्
व्यपोढाभ्रस्ततः कालः क्षणेन समपद्यत। शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः। प्रयाणे वासुदेवस्य बभूवुरनुयायिनः
मङ्गल्यार्थप्रदैः शब्दैरन्ववर्तन्त सर्वशः। सारसाः शतपत्राश्च हंसाश्च मधुसूदनम्
मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः । प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत
वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः। शुकनारदवाल्मीका मरुत्तः कुशिको भृगुः
देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम्। प्रदक्षिणमवर्तन्त सहिता वासवानुजम्
एवमेतैर्महाभागैर्महर्षिगणसाधुभिः । पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति
देवताभ्यो नमस्कृत्य ब्राह्मणान्स्वस्ति वाच्य च। प्रययौ पुण्डरीकाक्षः सात्यकेन सहाच्युतः
तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः । भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः । द्रुपदः काशिराजश्च शिखण्डी च महारथः
धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह। संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम्
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः। राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा
यो वै न कामान्न भयान्न लोभान्नार्थकारणात्। अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः
धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः । ईश्वरः सर्वभूतानां देवदेवः सनातनः
तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम्। संरिष्वज्य कौन्तेयः सन्देष्टुमुपचक्रमे
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला। उपवासतपःशीला सदा स्वस्त्ययने रता
देवतातिथिपूजासु गुरुशुश्रूषणे रता। वत्सला प्रियपुत्रा च माताऽस्माकं जनार्दन
सुयोधनभयाद्या नो त्रायतामित्रकर्शन । महतो मृत्युसंबाधुद्दुस्तरान्नौरिवार्णवात्
अस्मत्कृते च सततं यया दुःखानि माधव । अनुभूतान्यदुःखार्हां तां स्म पृच्छेरनामयम्
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् । अभिवाद्य स्वजेथास्त्वं पाण्डवान्परिकीर्तयन्
ऊढात्प्रभृति दुःखानि श्वशुराणामरिन्दम। निराकाराऽतदर्हा च पश्यन्ती दुःखमश्रुते
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः । यदहं मातरं क्लिष्टां सुखं दद्यामरिन्दम
प्रव्रजन्तोऽनुधावन्तीं कृपणां पुत्रगृद्धिनीम् । रुदतीमपहायैनामगच्छाम वयं वनम्