ततो व्यपेते तमसि सूर्ये विमल उद्गते । मैत्रे मुहूर्ते संप्राप्ते मद्वर्चिषि दिवाकरे
कौमुदे मासि रेवत्यां शरदन्ते हिमागमे । स्फीतसस्यसुखे काले कल्यः सत्ववतां वरः
मङ्गल्याः पुण्यनिर्घोषा वाचः श्रृण्वंश्च सूनृताः । ब्राह्मणानां प्रतीतानामृषीणामिव वासवः
कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः । उपतस्थे विवस्वन्तं पावकं च जनार्दनः
ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च। अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः
तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः। शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम्
रथ आरोप्यतां शङ्खश्चक्रं च गदया सह। उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च
दुर्योधनश्च दुष्टात्मा कर्णश्च सहसौबलः । न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा
ततस्तन्मतमाज्ञाय केशवस्य पुनःसराः । प्रसस्त्नुर्योजयिष्यन्तो रथं चक्रगदाभृतः
तं दीप्तमिव कालाग्निमाकाशगमिवाशुगम् । सूर्यचन्द्रप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम्
अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः । पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः
तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् । मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम्
सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्। यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम्
वाजिभिः शैब्यसुग्रीवमेधपुष्पबलाहकैः । स्नातैः संपादयामासुः संपन्नैः सर्वसंपदा
महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्। सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् । आरुरोह रथं सौरिर्विमानमिव कामगम्
ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः। पृथिवीं चान्तरिक्षं च रथघोषेण नादयन्
व्यपोढाभ्रस्ततः कालः क्षणेन समपद्यत। शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः। प्रयाणे वासुदेवस्य बभूवुरनुयायिनः
मङ्गल्यार्थप्रदैः शब्दैरन्ववर्तन्त सर्वशः। सारसाः शतपत्राश्च हंसाश्च मधुसूदनम्
मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः । प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत
वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः। शुकनारदवाल्मीका मरुत्तः कुशिको भृगुः
देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम्। प्रदक्षिणमवर्तन्त सहिता वासवानुजम्
एवमेतैर्महाभागैर्महर्षिगणसाधुभिः । पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति
देवताभ्यो नमस्कृत्य ब्राह्मणान्स्वस्ति वाच्य च। प्रययौ पुण्डरीकाक्षः सात्यकेन सहाच्युतः
तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः । भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः । द्रुपदः काशिराजश्च शिखण्डी च महारथः
धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह। संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम्
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः। राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा
यो वै न कामान्न भयान्न लोभान्नार्थकारणात्। अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः