जीवस्तु पाण्डुपुत्रेषु पञ्चालेष्वथ वृष्णिषु। दासीभाताऽस्मि पापानां सभामध्ये व्यवस्थिता
निरमर्षेष्वचेष्टेषु प्रेक्ष्यमाणेषु पाण्डुषु । पाहि मामिति गोविन्द मनसा चिन्तितोसि मे
यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत्। वरं वृणीष्व पाञ्चालि वरार्हाऽसि मता मम
अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति। मयोक्ते यत्र निर्मुक्ता वनवासाय केशव
एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन । त्रायस्व पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवान्
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः । श्नुषा भवामि धर्मेण साऽहं दासीकृता बलात्
धिक्पार्थस्य धनुष्मत्तां भीमसेनस्य धिग्बलम्। यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति
यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि। धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम्
इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम्। सुनीलमसितापाङ्गी सर्वगन्धादिवासितम्
सर्वलक्षणसंपन्नं महाभुजगवर्चसम् । केशपक्षं वरारोहा गृह्व वामेन पाणिना
पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी । अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत्
अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः। स्मर्तव्यः सर्वकार्येषु परेषां सन्धिमिच्छताम्
यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ । पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः
पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन । अभिमन्युं पुरस्कृत्य योत्स्यन्ते कुरुभिः सह
दुःशासनभुजं श्यामं संछिन्नं पांसुकुण्ठितम्। यद्यहं तु न पश्यामि का शान्तिर्हृदयस्य मे
त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे। विधाय हृदये मन्युं प्रदीप्तमिव पावकम्
विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम् । योऽयमद्य महाबाहुर्धर्ममेवानुपश्यति
इत्युक्त्वा बाष्परुद्धेन कण्ठेनायतलोचना । रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम्
स्तनौ पीनायतश्रोणी सहितावभिवर्षती। द्रवीभूतमिवात्युष्णं मुञ्चन्ती वारि नेत्रजम्
तामुवाच महाबाहुः केशवः परिसान्त्वयन्। अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः
एवं ता भीरु रोस्त्यन्ति निहतज्ञातिबान्धवाः। हतमित्रा हतबला येषां क्रुद्धाऽसि भामिनी
अहं च तत्करिष्यामि भीमार्जुनयमैः सह । युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात्
धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः। शेष्यन्ते निहता भूमौ श्वसृगालादनीकृताः
चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत्। द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत्
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत्।' सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् । हतामित्राञ्श्रिया युक्तानचिदाद्द्रक्ष्यसे पतीन्
कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः। संबन्धी दयितो नित्यमुभयोः पक्षयोरपि
पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम्। समर्थः प्रशमं चैव कर्तुमर्हसि केशव
त्वमित्तः पुण्डरीकाक्ष सुयोधनममर्षणम् । शान्त्यर्थं भ्रातरं ब्रूया यत्तद्वाच्यममित्रहन्
त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम्। हितं नादास्यते बालो दिष्टस्य वशमेष्यति
धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम्। एष यास्यामि राजानं धृतराष्ट्रमभीप्सया