एतत्समर्थं पार्थानां तव चैव यशस्करम्। क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम्
क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः। अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता
अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात्। गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक्
यथाऽवध्ये वध्यमाने भवेद्दोषो जनार्दन । स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः
यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु। पाण्डवैः सह दाशर्हैः सृञ्जयैश्च ससैनिकैः
पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन। का तु सीमन्तिनी मादृकं पृथिव्यामस्ति केशव
सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता। धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी
आजमूढकुलं प्राप्त स्नुषा पाण्डोर्महात्मनः । महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम्
सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः । अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः
साऽहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता। पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव
जीवस्तु पाण्डुपुत्रेषु पञ्चालेष्वथ वृष्णिषु। दासीभाताऽस्मि पापानां सभामध्ये व्यवस्थिता
निरमर्षेष्वचेष्टेषु प्रेक्ष्यमाणेषु पाण्डुषु । पाहि मामिति गोविन्द मनसा चिन्तितोसि मे
यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत्। वरं वृणीष्व पाञ्चालि वरार्हाऽसि मता मम
अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति। मयोक्ते यत्र निर्मुक्ता वनवासाय केशव
एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन । त्रायस्व पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवान्
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः । श्नुषा भवामि धर्मेण साऽहं दासीकृता बलात्
धिक्पार्थस्य धनुष्मत्तां भीमसेनस्य धिग्बलम्। यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति
यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि। धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम्
इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम्। सुनीलमसितापाङ्गी सर्वगन्धादिवासितम्
सर्वलक्षणसंपन्नं महाभुजगवर्चसम् । केशपक्षं वरारोहा गृह्व वामेन पाणिना
पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी । अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत्
अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः। स्मर्तव्यः सर्वकार्येषु परेषां सन्धिमिच्छताम्
यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ । पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः
पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन । अभिमन्युं पुरस्कृत्य योत्स्यन्ते कुरुभिः सह
दुःशासनभुजं श्यामं संछिन्नं पांसुकुण्ठितम्। यद्यहं तु न पश्यामि का शान्तिर्हृदयस्य मे
त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे। विधाय हृदये मन्युं प्रदीप्तमिव पावकम्
विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम् । योऽयमद्य महाबाहुर्धर्ममेवानुपश्यति
इत्युक्त्वा बाष्परुद्धेन कण्ठेनायतलोचना । रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम्
स्तनौ पीनायतश्रोणी सहितावभिवर्षती। द्रवीभूतमिवात्युष्णं मुञ्चन्ती वारि नेत्रजम्
तामुवाच महाबाहुः केशवः परिसान्त्वयन्। अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः