सात्यकिं च महावीर्यं विराटं च महात्मजम्। द्रुपदं च महामात्यं धृष्टद्युम्नं च माधव
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् । मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि
स भवान्गमनादेव साधयिष्यत्यसंशयम्। इष्टमर्थं महाबाहो धर्मराजस्य केवलम्
विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः । श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयाऽनघ
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् । तं च पापसमाचारं सहामात्यं सुयोधनम्
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन । कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि
यदेतत्कथितं राज्ञा धर्म एष सनातनः। यथा च युद्धमेव स्यात्तथा कार्यमरिन्दम
यदि प्रसममिच्छेयुः कुरवः पाण्डवैः सह। तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः
कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम्। अवधेन प्रशाम्येत मम मन्युः सुयोधने
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः । धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे
ब्रूहि मद्वचनं कृष्ण सुयोधनमपण्डितम्। कृच्छ्रे वने वा वस्तव्यं पुरे वा नागसाह्वये
सत्यमाह महाबाहो सहदेवो महामतिः। दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत्
न जानासि यथा दृष्ट्वा चीराजिनधरान्वने। तवापि मन्युरुद्धूतो दुःखितान्प्रेक्ष्य पाण्डवान्
तस्मान्माद्रीसुतः शूरो यदाह रणकर्कशः। वचनं सर्वयोधानां तन्मतं पुरुषोत्तम
एवं वदि वाक्यं तु युयुधाने महामतौ। सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः
सर्वे हि सर्वशो वीरास्तद्वचः प्रत्यपूजयन्। साधुसाध्विति शैनेयं हर्षयन्तो युयुत्सवः
राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम्। कृष्णा दाशार्हमासीनमब्रवीच्छोककर्शिता
सुता द्रुपदराजस्य स्वसितायतमूर्धजा । संपूज्य सहदेवं च सात्यकिं च महारथम्
भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः । अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी
विदितं ते महाबाहो धर्मज्ञ मधुसूदन । यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात्
धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन। यथा च सञ्जयो राज्ञा मन्त्रं रहसि श्रावितः
युधिष्ठिरस्य दाशार्ह तच्चापि विदितं तव। यथोक्तः सञ्जयश्चैव तच्च सर्वं श्रुतं त्वया
पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते। अविस्थलं वृकस्थलं माकन्दीं वारणावतम्
अवसानं महाबाहो कंचिदेकं च पञ्चमम्। इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव
न चापि ह्यकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः । युधिष्ठिरस्य दाशार्ह श्रीमतः सन्धिमिच्छतः
अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः। सन्धिमिच्छेन्न कर्तव्यं तत्र गत्वा कथंचन
शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह। धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम्
न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन । तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन
साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः। योक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता
तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत। त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः