वनस्पतीनोषधीश्चाविशन्ति आपो वायुं पृथिवीं चान्तरिक्षम्। चतुष्पदं द्विपदं चाति सर्व- मेवंभूता गर्भभूता भवन्ति
अन्यद्वपुर्विदधातीह गर्भ- मुताहोस्वित्स्वेन कायेन याति। आपद्यमानो नरयोनिमेता- माचक्ष्व मे संशयात्प्रब्रवीमि
शरीरदेहातिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम्। एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे
वायुः समुत्कर्षति गर्भयोनि- मृतौ रेतः पुष्पफलानुपृक्तम्। स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम्
स जायमानो विगृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः। स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च
घ्राणेन गन्धं जिह्वयाऽथो रसं च त्वचा स्पर्शं मनसा वेदभावम्। इत्यष्टकेहोपहितं हि विद्धि महात्मनः प्राणभृतः शरीरे
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा। अभावभूतः स विनाशमेत्य केनात्मानं चेतयते परस्तात्
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा पुरोधाय सुकृतं दुष्कृतं वा। अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह
पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति। कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव
चतुष्पदा द्विपदाः षट्पदाश्च तथाभूता गर्भभूता भवन्ति। आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह
किंस्वित्कृत्वा लभते तात लोका- न्मर्त्यः श्रेष्ठांस्तपसा विद्यया च। तन्मे पृष्टः शंस सर्वं यथाव- च्छुभाँल्लोकान्येन गच्छेत्क्रमेण
पुंसः सदैवेति वदन्ति सन्तः
अधीयानः पण्डितंमन्यमानो यो विद्यया हन्ति यशः परेषाम्। तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति
चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि। मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः
न मानमान्यो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात्। सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते
इति दद्यामिति यज इत्यदीय इति व्रतम्। इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः
ये चाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमार्गरुद्धम्। तन्निःश्रेयस्तेन संयोगमेत्य परां शान्तिं प्रत्युः प्रेत्य चेह
चरन्गृहस्थः कथमेति धर्मान्कथं भिक्षुः कथमाचार्यकर्मा। वानप्रस्थः सत्पथे सन्निविष्टो बहून्यस्मिन्संप्रति वेदयन्ति
आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी। मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्याशीलः सिध्यति ब्रह्मचारी
धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च। अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी
स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी। तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः
अशिल्पजीवी गुणवांश्चैव नित्यं जितेन्द्रियः सर्वतो विप्रयुक्तः। अनोकशायी लघुरल्पप्रसार- श्चरन्देशानेकचरः स भिक्षुः
रात्र्या यया वाऽभिजिताश्च लोका भवन्ति कामाभिजिताः सुखाश्च। तामेव रात्रिं प्रयतेत विद्वा- नरण्यसंस्थो भवितुं यतात्मा
दशैव पूर्वान्दश चापरांश्च ज्ञातीनथात्मानमथैकविंशम्। अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून्
कतिस्विदेव मुनयः कति मौनानि चाप्युत। भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम्
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः। ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप
कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः। ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्। तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः
अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः। कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम्
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम्। तथाऽस्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः