असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः । न मया तद्गृहीतं च पापं तस्य चिकीर्षेतम्
जानासि हि महाबाहो त्वमप्यस्य परं मतम्। प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि
संजानंस्तस्य चात्मानं मम चैव परं मतम्। अजानन्निव मां कस्मादर्जुनाद्याभिशङ्कसे
यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया। विधानं विहितं पार्थ कथं शर्म भवेत्परैः
यत्तु वाचा मया शक्यं कर्मणा वाऽपि पाण्डव । करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः
कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम् । याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि
तदैव ते पराभूता यदा सङ्कल्पितास्त्वया। लवशः क्षणशश्चापि न च तुष्टः सुयोधनः
सर्वथा तु मया कार्यं धर्मराजस्य शासनम् । विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः
उक्तं बहुविधं वाक्यं धर्मराजेन माधव। धर्मज्ञेन वदान्येन श्रुतं चैव हि तत्त्वया
मतमाज्ञाय राज्ञश्च भीमसेनेन माधव । संशमो बाहुवीर्य च ख्यापितं माधवात्मनः
तथैव फाल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् । आत्मनश्च मतं वीर कथितं भवताऽसकृत्
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्। यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम
तस्मिंरतस्मिन्निमित्ते हि मतं भवति केशव । प्राप्तकालं मनुष्येण क्षमं कार्यमरिन्दम
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा । अनित्यमतयो लोके नराः पुरुषसत्तम
अन्यथाबुद्धयो ह्यासन्नस्मासु वनवासिषु। अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा
अस्माकमपि वार्ष्णेय वने विचरतां तदा। न तथा प्रणयो राज्ये यथा संप्रति वर्तते
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः । अक्षौहिण्यो हि सप्ते मास्त्वत्प्रसादाज्जनार्दन
इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषात्। आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान्
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम्। ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः
युधिष्ठिरं भीमसेनं बीभत्सुं चापराचितम् । सहदेवं च मां चैव त्वां च रामं च केशव
सात्यकिं च महावीर्यं विराटं च महात्मजम्। द्रुपदं च महामात्यं धृष्टद्युम्नं च माधव
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् । मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि
स भवान्गमनादेव साधयिष्यत्यसंशयम्। इष्टमर्थं महाबाहो धर्मराजस्य केवलम्
विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः । श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयाऽनघ
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् । तं च पापसमाचारं सहामात्यं सुयोधनम्
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन । कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि
यदेतत्कथितं राज्ञा धर्म एष सनातनः। यथा च युद्धमेव स्यात्तथा कार्यमरिन्दम
यदि प्रसममिच्छेयुः कुरवः पाण्डवैः सह। तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः
कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम्। अवधेन प्रशाम्येत मम मन्युः सुयोधने
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः । धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे