तदिदं निश्चित्तं बुद्ध्या पूर्वैरपि महात्मभिः । दैवे च मानुषे चैव संयुक्तं लोककारणम्
अहं हि तत्करिष्यामि परं पुरुषकारतः । देवं तु न मया शक्यं कर्म कर्तुं कथंचन
स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः। न हि सन्तप्यते तेन तथारूपेण कर्मणा
तथापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः । शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा
स हि त्यागेन राज्यस्य न शमं समुपैष्यति। अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् । याच्यमानश्च राज्यं स न प्रजास्यति दुर्मतिः
न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशातनम् । उक्तं प्रयोजनं यत्तु धर्मराजेन भारत
तथा पापस्तु तत्सर्वं न करिष्यति कौरवः । तस्मिंश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति
मम चापि स वध्यो हि जगतश्चापि भारत । तेन कौमारके यूयं सर्वे विप्रकृताः सदा
विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना। न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे
असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः । न मया तद्गृहीतं च पापं तस्य चिकीर्षेतम्
जानासि हि महाबाहो त्वमप्यस्य परं मतम्। प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि
संजानंस्तस्य चात्मानं मम चैव परं मतम्। अजानन्निव मां कस्मादर्जुनाद्याभिशङ्कसे
यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया। विधानं विहितं पार्थ कथं शर्म भवेत्परैः
यत्तु वाचा मया शक्यं कर्मणा वाऽपि पाण्डव । करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः
कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम् । याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि
तदैव ते पराभूता यदा सङ्कल्पितास्त्वया। लवशः क्षणशश्चापि न च तुष्टः सुयोधनः
सर्वथा तु मया कार्यं धर्मराजस्य शासनम् । विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः
उक्तं बहुविधं वाक्यं धर्मराजेन माधव। धर्मज्ञेन वदान्येन श्रुतं चैव हि तत्त्वया
मतमाज्ञाय राज्ञश्च भीमसेनेन माधव । संशमो बाहुवीर्य च ख्यापितं माधवात्मनः
तथैव फाल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् । आत्मनश्च मतं वीर कथितं भवताऽसकृत्
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्। यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम
तस्मिंरतस्मिन्निमित्ते हि मतं भवति केशव । प्राप्तकालं मनुष्येण क्षमं कार्यमरिन्दम
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा । अनित्यमतयो लोके नराः पुरुषसत्तम
अन्यथाबुद्धयो ह्यासन्नस्मासु वनवासिषु। अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा
अस्माकमपि वार्ष्णेय वने विचरतां तदा। न तथा प्रणयो राज्ये यथा संप्रति वर्तते
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः । अक्षौहिण्यो हि सप्ते मास्त्वत्प्रसादाज्जनार्दन
इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषात्। आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान्
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम्। ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः
युधिष्ठिरं भीमसेनं बीभत्सुं चापराचितम् । सहदेवं च मां चैव त्वां च रामं च केशव