तदिदं भाषितं वाक्यं तथाचन तथैव तत्। न चैतदेवं द्रष्टव्यमसाध्यमपि किंचन
किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम्। कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः
संपाद्यमानं सम्यक्व स्यात्कर्म सफलं प्रभो। स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः
पाण्डवानां कुरूणां च भवान्नः प्रथमः सुहृत्। सुराणामसुराणां च यथा वीर प्रजापतिः
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् । अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम्
एवं च कार्यतामेति कार्यं तव जनार्दन । गमनादेवमेव त्वं करिष्यसि जनार्दन
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मानि । भविष्यति च तत्सर्वं यथा तव चिकीर्षितम्
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् । विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः। येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन। उपायेन नृशंसेन हृता दुर्द्यूतदेविना
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः । समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते
अधर्मेण जितान्दृष्ट्वा वने प्रवृजितांस्तथा। वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि। क्रिया कथंच मुख्या स्यान्मृदुना चेतरेण वा
अथवा मन्यसे ज्यायान्वधस्तेषामनन्तरम् । तदेव क्रियतामाशु न विचार्यमतस्त्वया
जानासि हि यथैतेन द्रौपदी पापबुद्धिना । परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम्
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव। न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे
तस्माद्यन्मन्यसे युक्तं पाण्डवानां हितं च यत्। तथाऽऽशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम्
एवमेतन्महाबाहो यथा वदसि पाण्डव। पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम्। सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः
क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम्। ऋते वर्षान्न कौन्तेय जातु निर्वर्तयेत्फलम्
तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम्। तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम्
तदिदं निश्चित्तं बुद्ध्या पूर्वैरपि महात्मभिः । दैवे च मानुषे चैव संयुक्तं लोककारणम्
अहं हि तत्करिष्यामि परं पुरुषकारतः । देवं तु न मया शक्यं कर्म कर्तुं कथंचन
स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः। न हि सन्तप्यते तेन तथारूपेण कर्मणा
तथापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः । शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा
स हि त्यागेन राज्यस्य न शमं समुपैष्यति। अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् । याच्यमानश्च राज्यं स न प्रजास्यति दुर्मतिः
न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशातनम् । उक्तं प्रयोजनं यत्तु धर्मराजेन भारत
तथा पापस्तु तत्सर्वं न करिष्यति कौरवः । तस्मिंश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति
मम चापि स वध्यो हि जगतश्चापि भारत । तेन कौमारके यूयं सर्वे विप्रकृताः सदा
विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना। न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे