नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये । विषादमर्च्छेद् ग्लानिं वाप्येतमर्थं ब्रवीमिते
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव। यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन्
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम। भवतां कच कृतः कामस्तेषां च श्रेय उत्तमम्
ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः । कुरवो युद्धमेवात्र घोरं कर्म भविष्यति
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः। धूरर्जुनेन धार्या स्याद्वेढव्य इतरो जनः
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति। धनञ्जयस्यैष कामो न हि युद्धं न कामये
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव। गदतः क्लीबया वाचा तेजस्ते समदीदिपम्
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन । तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो । लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात्
अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम् । न चान्तरेण कर्माणि पौरुषेण बलोदयः
तदिदं भाषितं वाक्यं तथाचन तथैव तत्। न चैतदेवं द्रष्टव्यमसाध्यमपि किंचन
किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम्। कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः
संपाद्यमानं सम्यक्व स्यात्कर्म सफलं प्रभो। स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः
पाण्डवानां कुरूणां च भवान्नः प्रथमः सुहृत्। सुराणामसुराणां च यथा वीर प्रजापतिः
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् । अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम्
एवं च कार्यतामेति कार्यं तव जनार्दन । गमनादेवमेव त्वं करिष्यसि जनार्दन
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मानि । भविष्यति च तत्सर्वं यथा तव चिकीर्षितम्
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् । विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः। येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन। उपायेन नृशंसेन हृता दुर्द्यूतदेविना
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः । समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते
अधर्मेण जितान्दृष्ट्वा वने प्रवृजितांस्तथा। वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि। क्रिया कथंच मुख्या स्यान्मृदुना चेतरेण वा
अथवा मन्यसे ज्यायान्वधस्तेषामनन्तरम् । तदेव क्रियतामाशु न विचार्यमतस्त्वया
जानासि हि यथैतेन द्रौपदी पापबुद्धिना । परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम्
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव। न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे
तस्माद्यन्मन्यसे युक्तं पाण्डवानां हितं च यत्। तथाऽऽशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम्
एवमेतन्महाबाहो यथा वदसि पाण्डव। पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम्। सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः
क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम्। ऋते वर्षान्न कौन्तेय जातु निर्वर्तयेत्फलम्
तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम्। तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम्