यादृशे च कुले जन्म सर्वराजाभिपूजिते । बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः
जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर । पर्यायं नाध्यवस्यन्ति देवमानुषयोर्जनाः
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु। विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम्
अन्यथा परिदृष्टानि कविभिर्दोवदर्शिभिः । अन्यथा परिवर्तन्ते वेगा इव नभस्वतः
सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् । कृतं मानुष्यकं कर्म दैनेनापि विरुद्ध्यते
दैवमप्यकृतं कर्म पौरुषेण विहन्यते । शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयं कृतम् । तस्मादनुपरोधश्च विद्यते तत्र लक्षणम्
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः। एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वये
य एवं कृतबुद्धिः स कर्मस्वेव प्रवर्तते । नासिद्धो व्यथते तस्य न सिद्धौ हर्षमश्रुते
तत्रेयमनुमात्रा मे भीमसेन विवक्षिता। नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगे
नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये । विषादमर्च्छेद् ग्लानिं वाप्येतमर्थं ब्रवीमिते
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव। यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन्
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम। भवतां कच कृतः कामस्तेषां च श्रेय उत्तमम्
ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः । कुरवो युद्धमेवात्र घोरं कर्म भविष्यति
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः। धूरर्जुनेन धार्या स्याद्वेढव्य इतरो जनः
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति। धनञ्जयस्यैष कामो न हि युद्धं न कामये
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव। गदतः क्लीबया वाचा तेजस्ते समदीदिपम्
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन । तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो । लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात्
अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम् । न चान्तरेण कर्माणि पौरुषेण बलोदयः
तदिदं भाषितं वाक्यं तथाचन तथैव तत्। न चैतदेवं द्रष्टव्यमसाध्यमपि किंचन
किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम्। कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः
संपाद्यमानं सम्यक्व स्यात्कर्म सफलं प्रभो। स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः
पाण्डवानां कुरूणां च भवान्नः प्रथमः सुहृत्। सुराणामसुराणां च यथा वीर प्रजापतिः
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् । अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम्
एवं च कार्यतामेति कार्यं तव जनार्दन । गमनादेवमेव त्वं करिष्यसि जनार्दन
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मानि । भविष्यति च तत्सर्वं यथा तव चिकीर्षितम्
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् । विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः। येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन। उपायेन नृशंसेन हृता दुर्द्यूतदेविना