अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते । चेतांसि विप्रतीपानि यत्त्वां भीभीम विन्दति
अहो पार्थ निमित्तानि विपरीतानि पश्यसि। स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि
अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि । कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः
उद्वेपते ते हृदयं मनस्ते प्रतिसीदति । ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि
अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम् । वातवेगप्रचलिता अष्ठीला शाल्मलेरिव
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी । मनांसि पाण्डुपुत्राणां मञ्जयत्यप्लवानिव
इदं मे महादाश्चर्यं पर्वतस्येव सर्पणम्। यदीदृशं प्रभाषेथा भीमसेनासमं वचः
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत । उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव
न चैतदनुरूपं ते यत्ते ग्लानिररिन्दम। यदोजसा न लभते क्षत्रियो न तदश्रुते
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः। सदश्ववत्समाधावद्बभाषे तदनन्तरम्
अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत। प्रणीतभावमत्यर्थं युधि सत्यपराक्रमम्
वेत्सि दाशार्ह सत्यं मे दीर्घकालं सहोषितः। उत वा मां न जानासि प्लवन्हृद इवाप्लवे
तस्मादनभिरुपाभिर्वाग्भिर्मां त्वं समर्च्छसि । कथं हि भीमसेनं मां जानन्कश्चन माधव
ब्रूयादप्रतिरूपाणि यथा मां वक्तमर्हसि । तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन
आत्मनः पौरुषं चैव बलं च न समं परैः । सर्वथाऽनार्यकर्मैतत्प्रशंसा स्वयमात्मनः
अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः । पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः
अचले चाप्रतिष्ठे चाप्यनन्ते सर्वमातरौ । यदीमे सहसा क्रुद्धे समेयातां शिले इव
अहमेते निगृह्णीयां बाहुभ्यां सचसाचरे । पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव
य एतत्प्राय मुच्येत न तं पश्यामि पुरूषम्। हिमवांश्च समुद्रश्च वज्री वा बलमित्स्वयम्
मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः । युद्धार्हान्क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः
अधः पादतलेनैतानधिष्ठास्यामि भूतले । न हि त्वं नाभिजानासि मम विक्रममच्युत
यथा मया विनिर्जित्य राजानो वशगाः कृताः । अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम्
विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन । परुषैराक्षिपसि किं व्रणं सूच्येव चानघ
यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः । द्रष्टासि युधि संबाधे प्रवृत्ते वैशसेऽहनि
मया प्रणुन्नान्मातङ्गात्नथिनः सादनस्तथा । तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान्
द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् । न मे सीदन्ति गात्राणि न ममोद्वेपते मनः
सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम। किं तु सौहृदमेवैतत्कृपया मधुसूदन । सर्वांस्तितिक्षे संक्लेशान्मा स्म नो भरता नशन्
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रवम् । न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया
वेदाहं तव माहात्म्यसुत ते वेद यद्बलम्। उत ते वेद कर्माणि न त्वां परिभवाम्यहम्
यथा चात्मनि कल्याणं संभावयसि पाण्डव । सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम्