अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः । दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः
तस्मान्मृदु शनैर्ब्रूया धर्मार्थसहितं हितम् । कामानुबद्धं बहुलं नोग्रमुग्रपराक्रमम्
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः। नीचैर्भूत्वाऽनुयास्यामो मा स्म नो भरता नशन्
अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह। वासुदेव तथा कार्यं न कुरूननयः स्पृशेत्
वाच्यः पितामहो वृद्धो ये च कृष्ण समासदः । भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम्
अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति । अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने
एतछ्रुत्वा महाबाहुः केशवः प्रहसन्निव। अभूतपूर्वं भीमस्य मार्दवोपहितं वचः
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके। मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम्
सन्तेजसंस्तदा वाग्भिर्भातरिश्वेव पावकम्। उवाच भीममासीनं कृपयाऽभिपरिप्लुतम्
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि। वधामिनन्दिनः क्रूरान्धार्तराष्ट्रन्मिमर्दिषुः
न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप । घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे
निःश्वसन्नग्निवत्तेन सन्तप्तः स्वेन मन्युना । अप्रशान्तमना भीम सधूम इव पावकः
एकान्ते निःश्वसञ्शेपे भारार्त इव दुर्बलः । अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः
आरुज्य वृक्षान्निर्मूलान्गजः परिरुजन्निव । निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि
नास्मिञ्जने न रमसे रहः क्षिपसि पाण्डव । नान्यं निशि दिवा चापि कदाचिदभिनन्दसि
अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव। जान्वोर्मूर्धानमाधाय चिरमास्ते प्रमीलितः
भ्रुकिटिं च पुनः कुर्वन्नोष्ठौ च विदशन्निव । अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम्
यथा तपुरस्तात्सविता दृश्यते शुक्रमुच्चरन् । यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान्
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः । हन्ताहं गदयाभ्येत्य दुर्योधनममर्पणम्
इति स्म मध्ये भ्रातृणां सत्येनालभसे वदाम्। तस्य ते प्रशमे बुद्धिर्ध्रियतेऽद्य परन्तप
अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते । चेतांसि विप्रतीपानि यत्त्वां भीभीम विन्दति
अहो पार्थ निमित्तानि विपरीतानि पश्यसि। स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि
अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि । कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः
उद्वेपते ते हृदयं मनस्ते प्रतिसीदति । ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि
अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम् । वातवेगप्रचलिता अष्ठीला शाल्मलेरिव
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी । मनांसि पाण्डुपुत्राणां मञ्जयत्यप्लवानिव
इदं मे महादाश्चर्यं पर्वतस्येव सर्पणम्। यदीदृशं प्रभाषेथा भीमसेनासमं वचः
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत । उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव
न चैतदनुरूपं ते यत्ते ग्लानिररिन्दम। यदोजसा न लभते क्षत्रियो न तदश्रुते
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः। सदश्ववत्समाधावद्बभाषे तदनन्तरम्