दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव । यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः
पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम्। इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः
दुर्योधनस्य क्रोधेन भरता मधुसूदन। धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः
अष्टादशेमे राजानः प्रख्यात मधुसूदन । ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान्
असुराणां समृद्धानां ज्वलतामिव तेजसा। पर्यायकाले धर्मस्य प्राप्ते कलिरजायत
हैहयानामुदावर्तो नीपानां जनमेजयः । बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः
अजबिन्दुः सुवीराणां सुराष्ट्राणां रुषर्द्धिकः। अर्कजश्च बलीहानां चीनानां धौतमूलकः
हयग्रीवो विदेहानां वरयुश्च महौजसाम् । बाहुः सुन्दरवंशानां दीप्ताक्षाणां पुरूरवाः
सहजश्चेदिमत्स्यानां प्रवीराणां वृषध्वजः । धारणश्चन्द्रवत्सानां मुकुटानां विगाहनः
शमश्च नन्दिवेगानामित्येते कुलपांसनाः । युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः
अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः । दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः
तस्मान्मृदु शनैर्ब्रूया धर्मार्थसहितं हितम् । कामानुबद्धं बहुलं नोग्रमुग्रपराक्रमम्
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः। नीचैर्भूत्वाऽनुयास्यामो मा स्म नो भरता नशन्
अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह। वासुदेव तथा कार्यं न कुरूननयः स्पृशेत्
वाच्यः पितामहो वृद्धो ये च कृष्ण समासदः । भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम्
अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति । अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने
एतछ्रुत्वा महाबाहुः केशवः प्रहसन्निव। अभूतपूर्वं भीमस्य मार्दवोपहितं वचः
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके। मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम्
सन्तेजसंस्तदा वाग्भिर्भातरिश्वेव पावकम्। उवाच भीममासीनं कृपयाऽभिपरिप्लुतम्
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि। वधामिनन्दिनः क्रूरान्धार्तराष्ट्रन्मिमर्दिषुः
न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप । घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे
निःश्वसन्नग्निवत्तेन सन्तप्तः स्वेन मन्युना । अप्रशान्तमना भीम सधूम इव पावकः
एकान्ते निःश्वसञ्शेपे भारार्त इव दुर्बलः । अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः
आरुज्य वृक्षान्निर्मूलान्गजः परिरुजन्निव । निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि
नास्मिञ्जने न रमसे रहः क्षिपसि पाण्डव । नान्यं निशि दिवा चापि कदाचिदभिनन्दसि
अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव। जान्वोर्मूर्धानमाधाय चिरमास्ते प्रमीलितः
भ्रुकिटिं च पुनः कुर्वन्नोष्ठौ च विदशन्निव । अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम्
यथा तपुरस्तात्सविता दृश्यते शुक्रमुच्चरन् । यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान्
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः । हन्ताहं गदयाभ्येत्य दुर्योधनममर्पणम्
इति स्म मध्ये भ्रातृणां सत्येनालभसे वदाम्। तस्य ते प्रशमे बुद्धिर्ध्रियतेऽद्य परन्तप