भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः । धर्मपाशनिबद्धाश्च न किंचित्प्रतिपेदिरे
एताश्चान्याश्च परुषा वाचः स समुदीरयन् । श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम्
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम्। अश्रुकण्ठा रुदन्तश्च सभायामासते सदा
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह। सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः
कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन । महागुणो वधो राजन्नु तु निन्दा कुजीविका
तदैव निहतो राजन्यदैव निरपत्रपः। निन्दितश्च महाराज पृथिव्यां सर्वराजभिः
ईषत्करो वधस्तस्य यस्य चारित्रमीदृशम् । प्रस्कुन्देन प्रतिस्तब्धश्छिन्नमूल इव द्रुमः
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः । जह्येन त्वममित्रघ्न मा राजन्विचिकित्सिथाः
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ। यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्। येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् । तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम्। निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः
त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति । तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि । वृद्धबालानुपादाय चातुर्वर्ण्ये समागते
शमं वै याचमानस्त्वं नाधर्मं तत्र लप्स्यसे । कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः
तस्मिंल्लोकपरित्यक्ते किं कार्यमवशिष्यते। हते दुर्योधने राजन्यदन्यत्क्रियतामिति
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् । यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम्
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् । निशम्य विनिवर्तिष्ये जयाय तव भारत
सर्वथा युद्धमेवाहमाशंसापि परैः सह । निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे
मृगाः शकुन्ताश्च वदन्ति घोरं हस्त्यश्वमुख्येषु निशामुखेषु । घोराणि रूपाणि तथैव चाग्नि- र्वर्णान्बहून्पुष्यति घोररूपान्
मनुष्यलोकक्षयकृत्सुघोरो नो चेदनुप्राप्त इहान्तकः स्यात्। शस्त्राणि यन्त्रं कवचान्रथांश्च नागान्हयांश्च प्रतिपादयित्वा
योधाश्च सर्वे कृतनिश्चयास्ते भवन्तु हस्त्यश्वरथेषु यत्ताः। साङ्ग्रामिकं ते यदुपार्जनीयं सर्वं समग्रं कुरु तन्नरेन्द्र
दुर्योधनो न ह्यलमद्य दातुं जीवंस्तवैतन्नृपते कथंचित्। यत्ते पुरस्तादभवत्समृद्धं द्यूते हृतं पाण्डवमुख्य राज्यम्
यथायथैव शान्तिः स्यात्कुरूणां मधुसूदन। तथातथैव भाषेथा मा स्म युद्धेन भीषयेः
अमर्षी जातसंरम्भः श्रेयोद्वेषी महामनाः। नोग्रं दुर्योधनो वाच्यः साम्नैवेनं समाचरेः
प्रकृत्या पापसत्वश्च तुल्यचेतास्तु दस्युभिः । ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः
अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः । दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः
म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम्। तादृशेन शमः कृष्ण मन्ये परमदुष्करः
सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः । प्रतिहन्त्ये सुहृदां वाचश्चैव मनांसि च
स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः । स्वभावात्पापमभ्येति तृणैश्छन्न इवोरगः