यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः। तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत्
सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया। सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः
तव धर्माश्रिता बुद्धिस्तेषां वैराश्रया मतिः। यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत्
न चैवं नैष्ठिकं कर्म क्षत्रियस्य विशांपते। आहुराश्रमिणः सर्वे न भैक्षं क्षत्रियश्चरेत्
जयो वधो वा सङ्ग्रामे धात्राऽऽदिष्टः सनातनः। स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशत्यते
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर । विक्रमस्व महाबाहो जहि शत्रून्परन्तप
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः । कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशांपते । बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि। तावदेते हरिष्यन्ति तव राज्यमरिन्दम
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात्। अलं कर्तुं धार्तराष्ट्रस्तव काममरिन्दम
एतदेव निमित्तं ते धार्तराष्ट्रो यथा त्वयि । नान्वतप्यत कोपेन तव कृत्वाऽपि दुष्करम्
पितामहस्य द्रोणस्य विदुरस्य च धीमतः । ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः। दानशीलं मृदुं दान्तं धर्मशीलमनुव्रतम्
यत्त्वामुपधिना राजन्द्यूते वञ्चितवांस्तदा । न चापत्रपते तेन नृशंसः स्वेन कर्मणा
तथाशीलसमाचरे राजन्मा प्रणयं कृथाः । वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत
वाग्भिस्त्वप्रतिरूपाभिरतुदत्त्वां सहानुजम् । श्लाघमानः प्रहृष्टः सन्भ्रातृभिः सह भाषते
एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम् । नामधेयं च गोत्रं च तदप्येषां न शिष्यते
कालेन महता चैषां भविष्यति पराभवः । प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो मयि
दुःशासनेन पापेन तदा द्यूते प्रवर्तिते । अनाथवत्तदा देवी द्रौपदी सुदुरात्मना
आकृष्य केशे रुदती सभायां राजसंसदि । भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः
भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः । धर्मपाशनिबद्धाश्च न किंचित्प्रतिपेदिरे
एताश्चान्याश्च परुषा वाचः स समुदीरयन् । श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम्
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम्। अश्रुकण्ठा रुदन्तश्च सभायामासते सदा
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह। सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः
कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन । महागुणो वधो राजन्नु तु निन्दा कुजीविका
तदैव निहतो राजन्यदैव निरपत्रपः। निन्दितश्च महाराज पृथिव्यां सर्वराजभिः
ईषत्करो वधस्तस्य यस्य चारित्रमीदृशम् । प्रस्कुन्देन प्रतिस्तब्धश्छिन्नमूल इव द्रुमः
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः । जह्येन त्वममित्रघ्न मा राजन्विचिकित्सिथाः
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ। यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्। येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति