हविषाऽग्निर्यथा कृष्ण भूय एवाभिवर्धते। अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः
अन्तरं लिप्समानानामयं दोषो निरन्तरः । पौरुषे यो हि बलवानाधिर्हृदयबाधनः। तस्य त्यागेन वा शान्तिर्मरणेनापि वा भवेत्
अथवा मूलघातेन द्विषतां मधुसूदन । फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत्
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः। संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम्। अत्र या प्रणिपातेन शान्तिः सैव गरीयसी
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम्। सान्त्वे प्रतिहते युद्धं प्रसिद्धं नापराक्रमः
प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते। तच्छुनामिव संपाते पण्डितैरुपलक्षितम्
लाङ्गूलचालनं क्ष्वेडा प्रतिवाचो विवर्तनम् । दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते
तत्र यो बलवान्कृष्ण जित्वा सोत्ति तदामिषम्। एवमेव मनुष्येषु विशेषो नास्ति कश्चन
सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम्। अनादरो विरोधश्च प्रणिपाती हि दुर्बलः
पिता राजा च वृद्धश्च सर्वथा मानमर्हति। तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन
पुत्रस्नेहश्च बलवान्धृतराष्ट्रस्य माधव । स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति
तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् । कथमर्थाच्च धर्माच्च न हीयेमहि माधव
ईदृशेऽत्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन। उपसंप्रष्टुमर्हामि त्वामृते पुरुषोत्तम
प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम्। को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत्
एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः । उभयोरेव वामर्थे यास्यामि कुरुसंसदम्
शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् । पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम्
मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान्। पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम्
न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति । सुयोधनः सूक्तमपि न करिष्यति ते वचः
समेतं पार्थिवं क्षत्रं दुर्योधनवशानुगम्। तेषां मध्यावतरणं तव कृष्ण न रोचये
न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम्। न च सर्वामरैश्वर्यं तव द्रोहेण माधव
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम्। अवाच्यास्तु भविष्यामः सर्वलोके महीक्षितां
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः । क्रुद्धस्य संयुगे स्थातुं सिंहस्येवेतरे मृगाः
अथ चेत्ते प्रवर्तेरन्मयि किंचिदसांप्रतम्। निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः
न जातु गमनं पार्थ भवेत्तत्र निरर्थकम् । अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता
एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम् । भातॄणां समवेतानां सकाशे पुरुषोत्तमम्
यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान्। कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम्
विष्वक्सेन कुरून्गत्वा भरताञ्शमयन्प्रभो। यथा सर्वे सुमनसः सह स्याम सुचेतसः
भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः। सौहृदेनाविशङ्ख्योऽसि स्वस्ति प्राप्नुहि भूतये
अस्मान्वेत्थ परान्वेत्थ वेत्थार्थान्वेत्थ भाषितुम्। यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः