ये ये लोकाः पार्थिवेन्द्रप्रधाना- स्त्वया भुक्ता यं च कालं यथावत्। तान्मे राजन्ब्रूहि सर्वान्यथाव- त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान्
राजाऽहमासमिह सार्वभौम- स्ततो लोकान्महतश्चाजयं वै। तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम्। अध्यावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम्। तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः
स देवदेवस्य निवेशने च विहृत्य लोकानवसं यथेष्टम्। संपूज्यमानस्त्रिदशैः समस्तै- स्तुल्यप्रभावद्युतिरीश्वराणाम्
तथाऽऽवसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम्। सहाप्सरोभिर्विहरन्पुण्यगन्धा- न्पश्यन्नगान्पुष्पितांश्चारुरूपान्
तत्र स्थितं मां देव सुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम्। दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण
एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः। वाचोऽश्रौषं चान्तरिक्षे सुराणां सानुक्रोंशाः शोचतां मां नरेन्द्र
अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः। तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु
तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चेमां त्वरितमुपागतोऽस्मि। हविर्गन्धं देशिकं यज्ञभूमे- र्धूमापाङ्गं प्रतिगृह्य प्रतीतः
यदाऽवसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम्। किं कारणं कार्तयुगप्रधान हित्वा च त्वं वसुधामन्वपद्यः
ज्ञातिः सुहृत्स्वजनो वा यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि। तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसङ्घाः
तस्मिन्कथं क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमात्रम्। किं वा विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे
इमं भौमं नरकं ते पतन्ति ललाप्यमाना नरदेव सर्वे। ते कङ्कगोमायुबलाशनार्थे क्षीणे पुण्ये बहुधा प्रव्रजन्ति
तस्मादेतद्वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म। आख्यातं ते पार्थिव सर्वमेव भूयश्चेदानीं वद किं ते वदामि
यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः। कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा- द्व्यक्तं पृथिव्यामनुसंचरन्ति। इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान्
षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि। तान्वै तुदन्ति पततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः
यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः। कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति
अस्रं रेतः पुष्पफलानुपृक्त- मन्वेति तद्वै पुरुषेण सृष्टम्। स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र
वनस्पतीनोषधीश्चाविशन्ति आपो वायुं पृथिवीं चान्तरिक्षम्। चतुष्पदं द्विपदं चाति सर्व- मेवंभूता गर्भभूता भवन्ति
अन्यद्वपुर्विदधातीह गर्भ- मुताहोस्वित्स्वेन कायेन याति। आपद्यमानो नरयोनिमेता- माचक्ष्व मे संशयात्प्रब्रवीमि
शरीरदेहातिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम्। एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे
वायुः समुत्कर्षति गर्भयोनि- मृतौ रेतः पुष्पफलानुपृक्तम्। स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम्
स जायमानो विगृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः। स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च
घ्राणेन गन्धं जिह्वयाऽथो रसं च त्वचा स्पर्शं मनसा वेदभावम्। इत्यष्टकेहोपहितं हि विद्धि महात्मनः प्राणभृतः शरीरे
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा। अभावभूतः स विनाशमेत्य केनात्मानं चेतयते परस्तात्
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा पुरोधाय सुकृतं दुष्कृतं वा। अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह
पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति। कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव
चतुष्पदा द्विपदाः षट्पदाश्च तथाभूता गर्भभूता भवन्ति। आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह