ये पुनः स्युरसंबद्धा अनार्याः कृष्ण शत्रवः। तेषामप्यवधः कार्यः किंपुनर्ये स्युरीदृशाः
ज्ञातयश्चैव भूयिष्ठाः सहाया गुरवश्च नः। तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम्
पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबन्धवः। स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता
शूद्रः करोति शुश्रूषां वैश्मा वै पण्यजीविकाः । वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम्
क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति। श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः
युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे। बलं तु नीतिमाधाय युध्ये जयपराजयौ
नात्मच्छन्देन भूतानां जीवितं मरणं तथा। नाप्यकाले सुखं प्राप्यं दुःखं वाऽपि यदूत्तम
एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत। शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम्
जयो नैवोभयोर्दृष्टो नोभयोश्च पराजयः। तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ
सर्वथा वृजिनं युद्धं को ध्नन्न प्रतिहन्यते। हतस्य च हृषीकेश समौ जयपराजयौ
पराजयश्च मरणान्मन्ये नैव विशिष्यते। यस्य स्याद्विजयः कृष्ण तस्यप्यपचयो ध्रुवम्
अन्ततो दयितं ध्नन्ति केचिदप्यपरे जनाः । तस्याङ्गबलहीनस्य पुत्रान्भ्रातॄनपश्यतः
निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते। ये ह्येव धीरा ह्रीमन्त आर्याः करुणवेदिनः
त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः। हत्वाऽप्यनुशयो नित्यं परानपि जनार्दन
अनुबद्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते। शेषो हि बलमासाद्य न शेषमनुशेषयेत्
सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया। जयो वैरं प्रसृजति दुःखमास्ते पराजितः
सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ । जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा
अनिर्वृत्तेन मनसा ससर्प इव वेश्मनि। उत्सादयति यः सर्वं यशसा स विमुच्यते
अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति। न हि वैराणि शाम्यन्ति दीर्घकालधृतान्यपि
आख्यातारश्च विद्यन्ते पुमांश्चेद्विद्यते कुले। न चापि वैरं वैरेण केशव व्युपशाम्यति
हविषाऽग्निर्यथा कृष्ण भूय एवाभिवर्धते। अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः
अन्तरं लिप्समानानामयं दोषो निरन्तरः । पौरुषे यो हि बलवानाधिर्हृदयबाधनः। तस्य त्यागेन वा शान्तिर्मरणेनापि वा भवेत्
अथवा मूलघातेन द्विषतां मधुसूदन । फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत्
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः। संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम्। अत्र या प्रणिपातेन शान्तिः सैव गरीयसी
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम्। सान्त्वे प्रतिहते युद्धं प्रसिद्धं नापराक्रमः
प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते। तच्छुनामिव संपाते पण्डितैरुपलक्षितम्
लाङ्गूलचालनं क्ष्वेडा प्रतिवाचो विवर्तनम् । दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते
तत्र यो बलवान्कृष्ण जित्वा सोत्ति तदामिषम्। एवमेव मनुष्येषु विशेषो नास्ति कश्चन
सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम्। अनादरो विरोधश्च प्रणिपाती हि दुर्बलः