काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन। भवता चैव नाथेन पञ्च ग्रामा वृता मया
अविस्थलं वृकस्थलं माकन्दी वारणावतम्। अवसानं च गोविन्द कंचिदेवात्र पञ्चम्
पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा। वसेम सहिता येषु मा च नो भरता नशन्
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते। स्वाम्यमात्मनि मत्वाऽसावतो दुःखतरं नु किं
कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः। लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियं
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् । श्रीर्हता पुरुषं हन्ति पुरुषस्याधं वधः
अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः। अपुष्पादफलाद्वृक्षाद्यथा कृष्ण पतत्रिणः
एतच्च मरणं तात उन्मत्तपतितादिव। ज्ञातयो विनिवर्तन्ते प्रेतसत्वादिवासवः
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् । यत्र नैवाऽद्य न प्रातर्भोजनं प्रतिदृश्यते
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्। जीवन्ति धनिनो लोके मृता ये त्वधना नराः
ये धनादपकर्षन्ति नरं स्वबलमास्थिताः। ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम्
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः। ग्रामायैके वनायैके नाशायैके प्रवव्रजुः
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम्। दास्यमेके च गच्छन्ति परेषामर्थहेतुना
आपदेवास्य मरणात्पुरुषस्य गरीयसी। श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्मवत्। समन्तात्सर्वभूतानां न तदत्येति कश्चन
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः। यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः
स तदाऽऽत्मापराधेन संप्राप्तो व्यसनं महत्। सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन
न चास्य सर्वशास्राणि प्रभवन्ति निबर्हणे । सोऽभिक्रुध्याति भृत्यानां सुहृदश्चाभ्यसूयति
तत्तदा मन्युरेवैति स भूयः संप्रमुह्यति। स मोहवशमापन्नः क्रूरं कर्म निषेवते
पापकर्मतया चैव सङ्करं तेन पुष्यति। सङ्करो नरकायैव सा काष्ठा पापकर्मणाम्
न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति। तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुस्तरिष्यति
प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते । शास्त्रनिष्ठः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम्
ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते। श्रीमान्स यावद्भवति तावद्भवति पूरुषः
धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा। नाधर्मे कुरुते बुद्धिं न च पापे प्रवर्तते
अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान्। नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः
ह्रीमानवति देवांश्च पितॄनात्मानमेव च। तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम्
तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन। यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः
ते वयं न श्रियं हातुमलं न्यायेन केनचित्। अत्र नो यतमानानां वधश्चेदपि साधु तत्
तत्र नः प्रथमः कल्पो यद्वयं ते च माधव। प्रशान्ताः समभूताश्च श्रियं तामश्रुवीमहि
तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया। यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यवाप्नुमः