अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् । करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत
श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम्। एतद्धि सकलं कृष्ण सञ्जयो मां यदब्रवीत्
मृदुपूर्वं साममिश्रं सममुग्रं च माधव । न कतृं न्यायमास्थाय गर्हिताश्च ततो वयम्
तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः। यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन्
अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति। लुब्धः पापेन मनसा चरन्नसममात्मनः
यत्तद्द्वादशवर्षाणि वनेषु ह्युषिता वयम्। छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात्
स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो। नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः
गृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति । वश्यत्वात्पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनं
सुयोधनमते तिष्ठन्राजाऽस्मासु जनार्दन। मिथ्याचरति लुब्धः संश्चरन्हि प्रियमात्मनः
इतो दुःखतरं किं नु यदहं मातरं ततः। संविधातुं न शक्नोमि मित्राणां वा जनार्दन
काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन। भवता चैव नाथेन पञ्च ग्रामा वृता मया
अविस्थलं वृकस्थलं माकन्दी वारणावतम्। अवसानं च गोविन्द कंचिदेवात्र पञ्चम्
पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा। वसेम सहिता येषु मा च नो भरता नशन्
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते। स्वाम्यमात्मनि मत्वाऽसावतो दुःखतरं नु किं
कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः। लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियं
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् । श्रीर्हता पुरुषं हन्ति पुरुषस्याधं वधः
अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः। अपुष्पादफलाद्वृक्षाद्यथा कृष्ण पतत्रिणः
एतच्च मरणं तात उन्मत्तपतितादिव। ज्ञातयो विनिवर्तन्ते प्रेतसत्वादिवासवः
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् । यत्र नैवाऽद्य न प्रातर्भोजनं प्रतिदृश्यते
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्। जीवन्ति धनिनो लोके मृता ये त्वधना नराः
ये धनादपकर्षन्ति नरं स्वबलमास्थिताः। ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम्
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः। ग्रामायैके वनायैके नाशायैके प्रवव्रजुः
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम्। दास्यमेके च गच्छन्ति परेषामर्थहेतुना
आपदेवास्य मरणात्पुरुषस्य गरीयसी। श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्मवत्। समन्तात्सर्वभूतानां न तदत्येति कश्चन
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः। यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः
स तदाऽऽत्मापराधेन संप्राप्तो व्यसनं महत्। सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन
न चास्य सर्वशास्राणि प्रभवन्ति निबर्हणे । सोऽभिक्रुध्याति भृत्यानां सुहृदश्चाभ्यसूयति
तत्तदा मन्युरेवैति स भूयः संप्रमुह्यति। स मोहवशमापन्नः क्रूरं कर्म निषेवते
पापकर्मतया चैव सङ्करं तेन पुष्यति। सङ्करो नरकायैव सा काष्ठा पापकर्मणाम्