मौनाद्ध्यानाच्च योगाच्च विद्दि भारत माधवम्। सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः
कृषिर्भूवाचकः शब्दो गश्च निर्वृतिवाचकः। विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः
पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् । तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जानार्दनः
यतः सत्वं न च्यवते यच्च यत्वान्न हीयते। सात्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः
न जायते जनित्राऽयमजस्तस्मादनीकजित् । देवानां स्वप्रकाशत्वाद्दमाद्दामोदरो विभुः
हर्षात्सुखात्सुखैश्वर्याद्धृषीकेशत्वमश्रुते । बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः
अघो न क्षीयते जातु यस्मात्तस्मादधोक्षजः। नराणामयनाच्चापि ततो नारायणः स्मृतः
पूरणात्सदनाच्चापि ततोऽसौपुरुषोत्तमः। असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात्। सर्वस्य च सदा ज्ञानात्सर्वमेतं प्रचक्षते
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम्। सत्यात्सत्यं तु गोविन्दस्तस्मात्सत्योपि नामतः
विष्णुर्विक्रमणाद्देवो जयनाञ्जिष्णुरुच्यते। शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्भवाम्
अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः
एवंविधो धर्मनित्यो भगवान्मधुसूदनः । आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः
चक्षुष्मतां वै स्पृहयामि सञ्जय द्रक्ष्यन्ति ये वासुदेवं समीपे। विभ्राजमानं वपुषा परेण प्रकाशयन्तं प्रदिशो दिशश्च
ईरयन्तं भारतीं भारताना- मभ्यर्चनीयां शङ्करीं सृञ्जयानाम्। बुभूषद्भिर्गर्हणीयामनिन्द्यां परासूनामग्रहणीयरूपाम्
समुद्यन्तं सात्वतमेकवीरं प्रणेतारमृषभं यादवानाम्। निहन्तारं क्षोभणं शात्रवाणां मुञ्चन्तं च द्विषतां वै यशांसि
द्रष्टारो हि कुरवस्तं समेता महात्मानं शब्रुहणं वरेण्यम् । ब्रुवन्तं वाचमनृशंसरूपां वृष्णिश्रेष्ठं मोहयन्तं मदीयान्
ऋषिं सनातनतभं विपश्चितं वाचःसमुद्रं कलशं यतीनाम्। अरिष्टनेमिं गरुडं सुपर्णं हरिं प्रजानां भुवनस्य धाम
सहस्रशीर्षं पुरुषं पुराण- मनादिमध्यान्तमनन्तकीर्तिम्। शुक्रस्य धातारमजं च नित्यं परं परेषां शरणं प्रपद्ये
त्रैलोक्यनिर्माणकरं जनित्रं देवासुराणामथ नागरक्षसाम्। नराधिपानां विदुषां प्रधान- मिन्द्रानुजं तं शरणं प्रपद्ये
प्रयाते सञ्जये साधौ कौरवान्प्रति वै तदा। किं चक्रुः पाण्डवास्तत्र मम पूर्वपितामहाः
एतत्सर्वं द्विजश्रेष्ठ विस्तरं मम सत्तम। कथयस्व प्रयत्नेन श्रोतुमिच्छामि पण्डित
सञ्जये प्रतियाते तु धर्मराजो युधिष्ठिरः। अर्जुनं भीमसेनं च माद्रीपुत्रौ च भारत
विराटं द्रुपदं चैव केकयानां महारथान्। अब्रुवीदुपसङ्गम्य शङ्खचक्रगदाधरम् । अभियाचामहे गत्वा प्रयातुं कुरुसंसदम्
यथा भीष्मेण द्रोणेन बाह्लीकेन च धीमता। अन्यैश्च कुरुभिः सार्धं न युध्येमहि संयुगे
एष नः प्रथमः कल्प एतन्निश्रेय उत्तमम् । एवमुक्ताः सुमनसस्तेऽभिजग्मुर्जनार्दनम्
पाण्डवैः सह राजानो मरुत्वन्त इवामराः। तदा च दुःसहाः सर्वे सदस्यास्ते नरर्षभाः
जनार्दनं समासाद्य कुन्तीपुत्रो युधिष्ठिरः । अब्रवीत्परवीरध्नं दाशार्हं पाण्डुनन्दनः
अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल । न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत्
त्वां हि माधवमाश्रित्य निर्भया मोघदर्पितम् । धार्तराष्ट्रं सहामात्यं स्वयं समनुयुङ्क्ष्महे
यथा हि सर्वास्वापत्सु पासि वृष्णीनरिन्दम्। तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात्