प्रतिकूलं कर्मणां पापमाहु- स्तद्वर्ततेऽप्रवणे पापलोक्यम्। सन्तोऽसतां नानुवर्तन्ति चैत- द्यथा चैषामनुकूलास्तथाऽऽसन्
अभूद्धनं मे विपुलं गतं त- द्विचेष्टमानो नाधिगन्ता तदस्मि। एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति जीवः
महाधनो यो यजते सुयज्ञै- र्यः सर्वविद्यासु विनीतबुद्धिः। वेदानधीत्य तपसा योज्य देहं दिवं स यायात्पुरुषो वीतमोहः
दिष्टं बलीय इति मत्वाऽऽत्मबुद्ध्या
सुखं हि जन्तुर्यदि वाऽपि दुःखं दैवाधीनं विन्दते नात्मशक्त्या। तस्माद्दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कथंचित्
दुःखैर्न तप्येन्न सुखैः प्रहृष्ये- त्समेन वर्तेत सदैव धीरः। दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत्कथंचित्
भये न मुह्याम्यष्टकाहं कदाचि- त्सन्तापो मे मानसो नास्ति कश्चित्। धाता यथा मां विदधीत लोके ध्रुवं तथाऽहं भवितेति मत्वा
संस्वेदजा अण्डजाश्चोद्भिदश्च सरीसृपाः कृमयोऽथाप्सु मत्स्याः। तथाश्मनस्तृणकाष्ठं च सर्वे दिष्टक्षये स्वां प्रकृतिं भजन्ति
अनित्यतां सुखदुःस्वस्य बुद्ध्वा कस्मात्संतापमष्टकाहं भजेयम्। किं कुर्यां वै किं च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः
एवं व्रुवाणं नृपतिं ययाति- मथाष्टकः पुनरेवान्वपृच्छत्। मातामहं सर्वगुणोपपन्नं तत्रस्थितं स्वर्गलोके यथावत्
ये ये लोकाः पार्थिवेन्द्रप्रधाना- स्त्वया भुक्ता यं च कालं यथावत्। तान्मे राजन्ब्रूहि सर्वान्यथाव- त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान्
राजाऽहमासमिह सार्वभौम- स्ततो लोकान्महतश्चाजयं वै। तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम्। अध्यावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम्। तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः
स देवदेवस्य निवेशने च विहृत्य लोकानवसं यथेष्टम्। संपूज्यमानस्त्रिदशैः समस्तै- स्तुल्यप्रभावद्युतिरीश्वराणाम्
तथाऽऽवसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम्। सहाप्सरोभिर्विहरन्पुण्यगन्धा- न्पश्यन्नगान्पुष्पितांश्चारुरूपान्
तत्र स्थितं मां देव सुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम्। दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण
एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः। वाचोऽश्रौषं चान्तरिक्षे सुराणां सानुक्रोंशाः शोचतां मां नरेन्द्र
अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः। तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु
तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चेमां त्वरितमुपागतोऽस्मि। हविर्गन्धं देशिकं यज्ञभूमे- र्धूमापाङ्गं प्रतिगृह्य प्रतीतः
यदाऽवसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम्। किं कारणं कार्तयुगप्रधान हित्वा च त्वं वसुधामन्वपद्यः
ज्ञातिः सुहृत्स्वजनो वा यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि। तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसङ्घाः
तस्मिन्कथं क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमात्रम्। किं वा विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे
इमं भौमं नरकं ते पतन्ति ललाप्यमाना नरदेव सर्वे। ते कङ्कगोमायुबलाशनार्थे क्षीणे पुण्ये बहुधा प्रव्रजन्ति
तस्मादेतद्वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म। आख्यातं ते पार्थिव सर्वमेव भूयश्चेदानीं वद किं ते वदामि
यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः। कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा- द्व्यक्तं पृथिव्यामनुसंचरन्ति। इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान्
षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि। तान्वै तुदन्ति पततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः
यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः। कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति
अस्रं रेतः पुष्पफलानुपृक्त- मन्वेति तद्वै पुरुषेण सृष्टम्। स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र