तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्। समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते। तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः
अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्। समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते। अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया
समेत्य तं द्विजास्ताश्च तत्रैव निधं गताः। एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः। तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः।। यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन। एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्। यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव
एको रथो गजश्चैको नराः पञ्च पदातयः। त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः। त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः। स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी। अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः
अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः। संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः। गजानां च परीमाणमेतदेव विनिर्दिशेत्
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु। नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः
पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च। दशोत्तराणि षट् प्राहुर्यथावदिह संख्यया
एतामक्षौहिणीं प्राहुः संख्यातत्त्वदितो जनाः। यां वः कथितवानस्मि विस्तरेण तपोधनाः
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः। अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु
समेतास्तत्र वै देशे तत्रैव निधं गताः। कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्। अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्
अहनी युयुधे द्वे तु कर्णः परबलार्दनः। शल्योऽर्धदिवसं चैव गदायुद्धमतः परम्
तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः। प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्
यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्। जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्। पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्
विचित्रार्थपदाख्यानमनेकसमयान्वितम्। प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्। इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते। आहारमनपाश्रित्य शरीरस्येव धारणम्
तदेतद्भारतं नाम कविभिस्तूपजीव्यते। उदयतेप्सुभिर्भृत्यैरभिजात इवेश्वरः
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा। स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्
तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः। सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च