मायां न सेवे भद्रं ते न वृथाधर्ममाचरे। शुद्धभावं गतो भक्त्या शास्त्रद्वेद्मि जनार्दनम्
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्। आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम्
भगवान्देवकीपुत्रो लोकांश्चेन्निहनिष्यति। प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम्
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः । ईर्षुर्दुरात्मा मानी च श्रेयसां वचनातिगः
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग। ऐश्वर्यजीतिते हित्वा पितरं मां च बालिश
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् । निहतो भीमसेनेन स्मर्ताति वचनं पितुः
प्रियोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे। यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते
जानात्येष हृषीकेशं पुराणं यच्च वै परम्। शुश्रूषमाणमैकाग्र्यं मोक्ष्यते महतो भयात्
वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः । सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः
यमस्य वशमायान्ति काममूढाः पुनः पुनः । अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः
एष एकायनः पन्था येन यान्ति मनीषिणः । तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सञ्जति
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम्। येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम्
नाकृतात्मा कृतात्मानं जातु विद्याञ्जनार्दनम् । आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात्
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः। अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम्
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः । बुद्धिश्च ते मा च्युवतु नियच्छैनां यतस्ततः
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्। एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः। आगमाधिगमाद्योगाद्वशी तत्त्वे प्रसीदति
भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः। नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम्
श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम्। यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः। वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते
मौनाद्ध्यानाच्च योगाच्च विद्दि भारत माधवम्। सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः
कृषिर्भूवाचकः शब्दो गश्च निर्वृतिवाचकः। विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः
पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् । तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जानार्दनः
यतः सत्वं न च्यवते यच्च यत्वान्न हीयते। सात्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः
न जायते जनित्राऽयमजस्तस्मादनीकजित् । देवानां स्वप्रकाशत्वाद्दमाद्दामोदरो विभुः
हर्षात्सुखात्सुखैश्वर्याद्धृषीकेशत्वमश्रुते । बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः
अघो न क्षीयते जातु यस्मात्तस्मादधोक्षजः। नराणामयनाच्चापि ततो नारायणः स्मृतः
पूरणात्सदनाच्चापि ततोऽसौपुरुषोत्तमः। असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात्। सर्वस्य च सदा ज्ञानात्सर्वमेतं प्रचक्षते
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम्। सत्यात्सत्यं तु गोविन्दस्तस्मात्सत्योपि नामतः
विष्णुर्विक्रमणाद्देवो जयनाञ्जिष्णुरुच्यते। शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्भवाम्