पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः। विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः
स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव । अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान्
कालचक्रं जगच्चक्रं युगचक्रं च केशवः। आत्मयोगेन भगवान्परिवर्तयतेऽनिशम्
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च । ईष्टे हि भगवानेकः सत्यमेतद्ब्रवीमि ते
ईशन्नपि महायोगी सर्वस्य जगतो हरिः। कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः
तेन वञ्चयते लोकान्मायायोगेन केशवः । ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्। कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय
श्रृणु राजन्न ते विद्या मम विद्या न हीयते। विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम्
विद्यया तात जानामि त्रियुगं मधुसूदनम् । कर्तारमकृतं देवं भूतानां प्रभवाप्ययम्
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने। यया त्वमभिजानासि त्रियुगं मधुसूदनम्
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे। शुद्धभावं गतो भक्त्या शास्त्रद्वेद्मि जनार्दनम्
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्। आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम्
भगवान्देवकीपुत्रो लोकांश्चेन्निहनिष्यति। प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम्
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः । ईर्षुर्दुरात्मा मानी च श्रेयसां वचनातिगः
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग। ऐश्वर्यजीतिते हित्वा पितरं मां च बालिश
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् । निहतो भीमसेनेन स्मर्ताति वचनं पितुः
प्रियोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे। यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते
जानात्येष हृषीकेशं पुराणं यच्च वै परम्। शुश्रूषमाणमैकाग्र्यं मोक्ष्यते महतो भयात्
वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः । सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः
यमस्य वशमायान्ति काममूढाः पुनः पुनः । अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः
एष एकायनः पन्था येन यान्ति मनीषिणः । तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सञ्जति
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम्। येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम्
नाकृतात्मा कृतात्मानं जातु विद्याञ्जनार्दनम् । आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात्
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः। अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम्
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः । बुद्धिश्च ते मा च्युवतु नियच्छैनां यतस्ततः
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्। एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः। आगमाधिगमाद्योगाद्वशी तत्त्वे प्रसीदति
भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः। नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम्
श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम्। यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः। वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते