अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते। स भ्रातॄनभिजानीहि वृत्त्या तं प्रतिपादय
दुर्योधने धार्तराष्ट्रे तद्वचो नाभिनन्दति। तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः
उत्थितेषु महाराज पृथिव्यां सर्वराजसु। रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे
आशंसमानो विजयं तेषां पुत्रवशानुगः । आत्मनश्च परेषां च पाण्डवानां च निश्चयम्
गावल्गणे ब्रूहि नः सारफल्गु स्वेसनायं यावदिहास्ति किंचित्। त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषां कनीयः
त्वमेतयोः सारवित्सर्वदर्शी धर्मार्थयोर्निपुणो निश्चयज्ञः। स मे पृष्टः सञ्जय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन्न सन्ति
न त्वां ब्रूयां रहिते जातु किंचि- दसूया हि त्वां प्रविशेत राजन्। आनयस्व पितरं महाव्रतं गान्धारीं च महिषीमाजमीढ
तो तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ । तयोस्तु त्वां सन्निधौ तद्वदेयं कृत्स्नं मतं केशवपार्थयोर्यत्
इत्युक्तेन च गान्धारी व्यासश्चात्राजगामह। आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च। अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्
संपृच्छते धृतराष्ट्रय सञ्जय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते। सर्वं यावद्वेत्थ तस्मिन्यथाव- द्याथातथ्यं वासुदेवेऽर्जुने च
अर्जुनो वासुदेवश्च धन्विनौ परमार्थितौ। कामादन्यत्र संभूतौ सर्वभावाय संमितौ
व्यामान्तरं समास्थय यथामुक्तं मनस्विनः । चक्रं तद्वासुदेवस्य मायया वर्तते विभो
सापह्नवं कौरवेषु पाण्डवानां सुसंमतम्। सारासारबलं ज्ञातुं तेजःपुञ्जावभासितम्
नरकं शम्बरं चैव कंसं चैद्यं च माधवः। जितवान्घोरसङ्काशान्क्रीडन्निव महाबलः
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः । मनसैव विशिष्टात्मा नयत्यात्मवशं वशी
भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति । सारासारबलं ज्ञातुं तत्समासेन मे शृणु
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः। सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः
भस्म कुर्याञ्जगदिदं मनसैव जनार्दनः । न तु कृत्स्नं जगच्छक्तं किञ्चित्कर्तुं जनार्दने
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः। ततो भवति गोविन्दो यतः कृष्णस्ततो जयः
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः। विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः
स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव । अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान्
कालचक्रं जगच्चक्रं युगचक्रं च केशवः। आत्मयोगेन भगवान्परिवर्तयतेऽनिशम्
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च । ईष्टे हि भगवानेकः सत्यमेतद्ब्रवीमि ते
ईशन्नपि महायोगी सर्वस्य जगतो हरिः। कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः
तेन वञ्चयते लोकान्मायायोगेन केशवः । ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्। कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय
श्रृणु राजन्न ते विद्या मम विद्या न हीयते। विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम्
विद्यया तात जानामि त्रियुगं मधुसूदनम् । कर्तारमकृतं देवं भूतानां प्रभवाप्ययम्
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने। यया त्वमभिजानासि त्रियुगं मधुसूदनम्