तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते । दमो दानं तपो ज्ञानमधीतं चानुवर्तते
दमस्तेजो वर्धयति पवित्रं दम उत्तमम् । विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत्
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् । येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयंभुवा
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम्। तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीरचापलम्
अकार्पण्यमसंरम्भः सन्तोषं श्रद्दधानता । एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः
कामो लोभश्च दर्पश्च मन्युर्निद्रा विकत्थनम्। मान ईर्ष्यां च शोकश्च नैतद्दान्तो निषेवते। अजिह्ममशठं शुद्धमेतद्दान्तस्य लक्षणम्
अलोलुपस्तथाऽल्पेप्सुः कामानामविचिन्तिता । समुद्रकल्पः परुषः स दान्तः परिकीर्तितः
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽत्मविद्बुधः । प्राप्येह लोके संमानं सुगतिं प्रेत्य गच्छति
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः। स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः
सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः। समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति
कर्मणाऽचरितं पूर्वं सद्भिराचरितं च यत्। तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः
नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः। कालाकाङ्क्षी चरँल्लोके ब्रह्मभूयाय कल्पते
शकुनीनामिवाकाशे पदं नैवोपलभ्यते। एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते
उत्सृज्यैव गृहान्यस्तु मोक्षमेवाभिमन्यते । लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वता दिवि
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक। उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि। पञ्चानामिव भूतानां महतां लोकधारिणाम्
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्। परां गतिमसंप्रेत्य न त्वं जेतुमिहार्हसि
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले। रणान्तकं तर्जयसे महावातमिव द्रुमः
सर्वशस्त्रभृतां श्रेष्ठं मेरुं सिखरिणामिव। युधि गाण्डिवधन्वानं को नु युध्येत बुद्धिमान्
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्। शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव
सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु। ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः
यः पुनः प्रतिमानेन त्रील्लोकानतिरिच्यते । तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान्
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः। आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः । अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्। वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम्
मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम् । द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम्
एते ह्यपि यतैवाहं मन्तुमर्हसि तांस्तथा। सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः। उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत
यच्चैव नगरे तस्मिञ्श्रूयते महदद्भुतम्। एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्