अस्त्रेण योधयुग्या च शीघ्रत्वे कौशले तथा। सर्वे स्म समजातीयाः सर्वे मानुषयोनयः
पितामह विजानीषे पार्थेषु विजयं कथम्। नाहं भवति न द्रोणे न कृपे न च बाह्लिके
अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे। अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे
पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः । ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः
ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च । यदा परिकरिष्यन्ति ऐणेयानिव तन्तुना । अतरित्रानिव जले बाहुभिर्मामका रणे
पश्यन्तस्ते परांस्तत्र रथनागसमाकुलान्। तदा दर्पं विमोक्ष्यन्ति पाण्डवाः स च केशवः
सुखान्यवाप्य सहिताः कृत्वा कर्म सुदुस्तरम्। विस्रब्धास्तु भविष्यामः प्राप्ते काले गतज्वराः
अथाब्रवीन्महाराजो धृतराष्ट्रः सुदुर्मनाः । विदुरं विदुषां श्रेष्ठं सर्वपार्थिवसंनिधौ
मोहितो मृत्युपाशेन कालस्य वशमागतः। तात कर्णेन सहितः पुत्रो दुर्योधनो मम
इह निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः । ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः
तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते । दमो दानं तपो ज्ञानमधीतं चानुवर्तते
दमस्तेजो वर्धयति पवित्रं दम उत्तमम् । विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत्
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् । येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयंभुवा
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम्। तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीरचापलम्
अकार्पण्यमसंरम्भः सन्तोषं श्रद्दधानता । एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः
कामो लोभश्च दर्पश्च मन्युर्निद्रा विकत्थनम्। मान ईर्ष्यां च शोकश्च नैतद्दान्तो निषेवते। अजिह्ममशठं शुद्धमेतद्दान्तस्य लक्षणम्
अलोलुपस्तथाऽल्पेप्सुः कामानामविचिन्तिता । समुद्रकल्पः परुषः स दान्तः परिकीर्तितः
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽत्मविद्बुधः । प्राप्येह लोके संमानं सुगतिं प्रेत्य गच्छति
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः। स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः
सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः। समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति
कर्मणाऽचरितं पूर्वं सद्भिराचरितं च यत्। तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः
नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः। कालाकाङ्क्षी चरँल्लोके ब्रह्मभूयाय कल्पते
शकुनीनामिवाकाशे पदं नैवोपलभ्यते। एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते
उत्सृज्यैव गृहान्यस्तु मोक्षमेवाभिमन्यते । लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वता दिवि
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक। उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि। पञ्चानामिव भूतानां महतां लोकधारिणाम्
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्। परां गतिमसंप्रेत्य न त्वं जेतुमिहार्हसि
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले। रणान्तकं तर्जयसे महावातमिव द्रुमः
सर्वशस्त्रभृतां श्रेष्ठं मेरुं सिखरिणामिव। युधि गाण्डिवधन्वानं को नु युध्येत बुद्धिमान्