नैव देवा न गन्धर्वा नासुरा न च राक्षसाः। शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते
दयभिध्याम्यहं शश्वच्छुभं वा यदि वाऽशुभम् । नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः
भविष्यतीदमिति वा यद्ब्रवीमि परन्तप । नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् । आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन । असदाचरितं ह्येतद्यदात्मानं प्रशंसति
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह । सात्यकिं वासुदेवं च श्रोतासि विजितान्मया
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः । तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः
परा बुद्धिः परं तेजो वीर्यं च परमं मम। परा विद्या परो योगो मम तेभ्यो विशिष्यते
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा। अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते
इत्युक्ते सञ्जयं भूयः पर्यपृच्छत भारत । ज्ञात्वा युयुत्सोः कार्याणि प्राप्तकालमरिन्दमः
तथा तु पृच्छन्तमतीव पार्थं वैचित्रवीर्यं तमचिन्तयित्वा। उवाच कर्णो धृतराष्ट्रपुत्रं प्रहर्षयन्संसदि कौरवाणाम्
मिथ्या प्रतिज्ञाय मया यदस्त्रं रामात्कृतं ब्रह्ममयं पुरस्तात्। विज्ञाय तेनास्मि तदैवमुक्त- स्ते नान्तकाले प्रतिभास्यतीति
महापराधे ह्यपि यन्न तेन महर्षिणाऽहं गुरुणा च शप्तः । शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः ससागरामप्यवनिं महर्षिः
प्रसादितं ह्यस्य मया मनोऽभू- च्छुश्रूषया स्वेन च पौरुषेण तदस्ति चास्त्रं मम सावशेषं तस्मात्समर्थोऽस्मि ममैष भारः
निमेषमात्रात्तमृषेः प्रसाद- मवाप्य पाञ्चालकरूशमत्स्यान्। निहत्य पार्थान्सह पुत्रपौत्रै- र्लोकानहं शस्त्रजितान्प्रपत्स्ये
पितामहस्तिष्ठतु ते समीपे द्रोणश्च सर्वे च नरेन्द्रमुख्याः । ऋषिप्रसादेन बलेन गत्वा पार्थान्हनिष्यामि ममैष भारः
एवं ब्रुवन्तं तमुवाच भीष्मः किं कत्थसे कालपरीतबुद्धे। न कर्ण जानासि यथा प्रधाने हते हताः स्युर्धृतराष्ट्रपुत्राः
यत्खाण्डवं दाहयता कृतं हि कृष्णद्वितीयेन धनञ्जयेन। श्रुत्वैव तत्कर्म नियन्तुमात्मा युक्तस्त्वया वै सहबान्धवेन
यां चापि शक्तिं त्रिदशाधिपस्ते ददौ महात्मा भगवान्महेन्द्रः। भस्मीकृतां तां समरे विशीर्णां चक्राहतां द्रक्ष्यसि केशवेन
यस्ते शरः सर्पमुखो विभाति सदाऽग्र्यमाल्यैर्महितः प्रयत्नात्। स पाण्डुपुत्राभिहतः शरौघैः सह त्वया यास्यति कर्ण नाशम्
बाणस्य भौमस्य च कर्ण हन्ता किरीटिनं रक्षति वासुदेवः । यस्त्वादृशानां च वरीयसां च हन्ता रिपूणां तुमुले प्रगाढे
असंशयं वृष्णिपतिर्यथोक्त- स्तथा च भूयांश्च ततो महात्मा। अहं यदुक्तः परुषं तु किंचि- त्पितामहस्तस्य फलं शृणोतु
न्यस्यामि शस्त्राणि न जातु सङ्ख्ये पितामहो द्रक्ष्यति मां सभायाम्। त्वयि प्रशान्ते तु मम प्रभावं द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः
इत्येवमुक्त्वा स महाधनुष्मान् हित्वा सभां स्वं भवनं जगाम । भीष्मस्तु दुर्योधनमेव राजन् मध्ये कुरूणां प्रहसन्नुवाच
सत्यप्रतिज्ञः किल सूतपुत्र- स्तथा कस भारं विषहेत कस्मात्। व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा लोकक्षयं पश्यत भीमसेनात्
आवन्त्यकालिङ्गजयद्रथेषु चेदिध्वजे तिष्ठति बाह्लिके च। अहं हनिष्यामि सदा परेषां सहस्रशश्चायुतशश्च योधान्
यदैव रामे भगवत्यनिन्द्ये ब्रह्मब्रुवाणः कृतवांस्तदस्त्रम्। तदैव धर्मश्च तषश्च नष्टं वैकर्तनस्याधमपूरुषस्य
तथोक्तवाक्ये नृपतीन्द्र भीष्मे निक्षिप्य शस्त्राणि गते च कर्णे। वैचित्रवीर्यस्य सुतोऽल्पबुद्धि- र्दुर्योधनः शान्तनवं बभाषे
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्। कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम्
वयं च तेऽपि तुल्या वै वीर्येण च पराक्रमैः । समेन वयसा चैव प्रातिभेन श्रुतेन च