यद्वा परमकं तेजो येन युक्ता दिवौकसः। ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत
विदीर्यमाणां वसुधां गिरीणां शिखराणि च। लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात्
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च। विनाशाय समुत्पन्नमहं घोरं महास्वनम्
अश्मवर्षं च वायुं च शमयामीह नित्यशः । जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः। देवासुराणां भावानामहमेकः प्रवर्तिता
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् । तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये
भयानकानि विषये व्यालादीनि न सन्ति मे । मन्त्रगुप्तानि भूतानि न हिंसन्ति यंकराः
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम्। धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे
अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा। धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम्
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमञ्जसा। न स्म त्रयोदश समाः पार्था दुःखभवाप्नुयुः
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः। शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते
दयभिध्याम्यहं शश्वच्छुभं वा यदि वाऽशुभम् । नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः
भविष्यतीदमिति वा यद्ब्रवीमि परन्तप । नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् । आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन । असदाचरितं ह्येतद्यदात्मानं प्रशंसति
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह । सात्यकिं वासुदेवं च श्रोतासि विजितान्मया
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः । तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः
परा बुद्धिः परं तेजो वीर्यं च परमं मम। परा विद्या परो योगो मम तेभ्यो विशिष्यते
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा। अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते
इत्युक्ते सञ्जयं भूयः पर्यपृच्छत भारत । ज्ञात्वा युयुत्सोः कार्याणि प्राप्तकालमरिन्दमः
तथा तु पृच्छन्तमतीव पार्थं वैचित्रवीर्यं तमचिन्तयित्वा। उवाच कर्णो धृतराष्ट्रपुत्रं प्रहर्षयन्संसदि कौरवाणाम्
मिथ्या प्रतिज्ञाय मया यदस्त्रं रामात्कृतं ब्रह्ममयं पुरस्तात्। विज्ञाय तेनास्मि तदैवमुक्त- स्ते नान्तकाले प्रतिभास्यतीति
महापराधे ह्यपि यन्न तेन महर्षिणाऽहं गुरुणा च शप्तः । शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः ससागरामप्यवनिं महर्षिः
प्रसादितं ह्यस्य मया मनोऽभू- च्छुश्रूषया स्वेन च पौरुषेण तदस्ति चास्त्रं मम सावशेषं तस्मात्समर्थोऽस्मि ममैष भारः
निमेषमात्रात्तमृषेः प्रसाद- मवाप्य पाञ्चालकरूशमत्स्यान्। निहत्य पार्थान्सह पुत्रपौत्रै- र्लोकानहं शस्त्रजितान्प्रपत्स्ये
पितामहस्तिष्ठतु ते समीपे द्रोणश्च सर्वे च नरेन्द्रमुख्याः । ऋषिप्रसादेन बलेन गत्वा पार्थान्हनिष्यामि ममैष भारः
एवं ब्रुवन्तं तमुवाच भीष्मः किं कत्थसे कालपरीतबुद्धे। न कर्ण जानासि यथा प्रधाने हते हताः स्युर्धृतराष्ट्रपुत्राः
यत्खाण्डवं दाहयता कृतं हि कृष्णद्वितीयेन धनञ्जयेन। श्रुत्वैव तत्कर्म नियन्तुमात्मा युक्तस्त्वया वै सहबान्धवेन
यां चापि शक्तिं त्रिदशाधिपस्ते ददौ महात्मा भगवान्महेन्द्रः। भस्मीकृतां तां समरे विशीर्णां चक्राहतां द्रक्ष्यसि केशवेन
यस्ते शरः सर्पमुखो विभाति सदाऽग्र्यमाल्यैर्महितः प्रयत्नात्। स पाण्डुपुत्राभिहतः शरौघैः सह त्वया यास्यति कर्ण नाशम्