शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः । कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान्
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः। आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत्
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान्। मन्यते तद्भयं व्येतु भवतो राजसत्तम
अकामद्वेषसंयोगाल्लोभद्रोहाच्च भारत । उपेक्षया च भावानां देवा देवत्वमाप्नुवन्
इति द्वैपायेनो व्यासो नारदश्च महातपाः । जामदग्न्यश्च रामो नः कथामकथयत्पुरा
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन । कामात्क्रोधात्तथा लोभाद्द्वेषाच्च भरतर्षभ
यदा ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि। कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कथंचन । दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत
अथ चेत्कामसंयोगाद्द्वेषो लोभश्च लक्ष्यते। देवेषु दैवप्रामाण्यान्नैषां तद्विक्रमिष्यति
मयाऽभिमन्त्रतः शश्वञ्जातवेदाः प्रशाम्यति। दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः
यद्वा परमकं तेजो येन युक्ता दिवौकसः। ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत
विदीर्यमाणां वसुधां गिरीणां शिखराणि च। लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात्
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च। विनाशाय समुत्पन्नमहं घोरं महास्वनम्
अश्मवर्षं च वायुं च शमयामीह नित्यशः । जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः। देवासुराणां भावानामहमेकः प्रवर्तिता
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् । तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये
भयानकानि विषये व्यालादीनि न सन्ति मे । मन्त्रगुप्तानि भूतानि न हिंसन्ति यंकराः
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम्। धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे
अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा। धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम्
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमञ्जसा। न स्म त्रयोदश समाः पार्था दुःखभवाप्नुयुः
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः। शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते
दयभिध्याम्यहं शश्वच्छुभं वा यदि वाऽशुभम् । नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः
भविष्यतीदमिति वा यद्ब्रवीमि परन्तप । नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् । आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन । असदाचरितं ह्येतद्यदात्मानं प्रशंसति
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह । सात्यकिं वासुदेवं च श्रोतासि विजितान्मया
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः । तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः
परा बुद्धिः परं तेजो वीर्यं च परमं मम। परा विद्या परो योगो मम तेभ्यो विशिष्यते
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा। अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते
इत्युक्ते सञ्जयं भूयः पर्यपृच्छत भारत । ज्ञात्वा युयुत्सोः कार्याणि प्राप्तकालमरिन्दमः