पुनरेव कुरूणां च पाण्डवानां च बुद्धिमान् ।' शक्तिं शङ्ख्यातुमारेभे तदा वै मनुजाधिपः
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान्। कुरूञ्शक्त्याऽल्पतरया दुर्योधनमथाब्रवीत्
दुर्योधनेयं चिन्ता मे शश्वन्न व्युपशाम्यति। सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः
आत्मजेषु परं स्नेहं सर्वभातिनि कुर्वते। प्रियामि चैषां कुर्वन्ति यथाशक्ति हितानि च
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे। इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम्
अग्निः साचिव्यर्ता स्यात्खाण्डवे तत्कृतं स्मरन् । अर्जुनस्यापि भीमेऽस्मिन्कुरुपाण्डुसमागमे
जातिगृद्ध्याऽभिपन्नाश्च पाण्डवानामनेकशः। धर्मादयः समेष्यन्ति समाहूता दिवौकसः
भीष्मद्रोणकृपादीनां भयादशनिसन्निभम् । रिरक्षिषन्तः संरभ्यं गमिष्यन्तीति मे मतिः
ते देवैः सहिताः पार्था न शक्याः प्रतिवीक्षितुम् । मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् । वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी
वानरश्च ध्वजे दिव्यो निःसङ्गे धूमवद्गतिः । रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः । महाशनिसमः शब्दःत शात्रवाणां भयंकरः
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति। देवानामपि जेतारं यं विदुः पार्थिवा रणे
शतानि पञ्च चैवेषून्यो गृह्णन्नैव दृश्यते। निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन्
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च । मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः । अशक्यं रथशार्दूलं पराजेतुमरिंदमम्
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः। सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम्
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्रविक्रमम्। निघ्नन्तमिव पश्याभि विमर्देऽस्मिन्महाहवे
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत । अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः। अस्य चेत्कलहन्यान्तः शमादन्यो न विद्यते
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः । कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान्
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः। आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत्
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान्। मन्यते तद्भयं व्येतु भवतो राजसत्तम
अकामद्वेषसंयोगाल्लोभद्रोहाच्च भारत । उपेक्षया च भावानां देवा देवत्वमाप्नुवन्
इति द्वैपायेनो व्यासो नारदश्च महातपाः । जामदग्न्यश्च रामो नः कथामकथयत्पुरा
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन । कामात्क्रोधात्तथा लोभाद्द्वेषाच्च भरतर्षभ
यदा ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि। कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कथंचन । दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत
अथ चेत्कामसंयोगाद्द्वेषो लोभश्च लक्ष्यते। देवेषु दैवप्रामाण्यान्नैषां तद्विक्रमिष्यति
मयाऽभिमन्त्रतः शश्वञ्जातवेदाः प्रशाम्यति। दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः