त्यक्तं मे जीवितं राज्यं धनं सर्वं च पार्थिव । न जातु पाण्डवैः सार्धं वसेयमहमच्युत
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष । तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति
सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया। ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम्
रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः। वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः
प्रतीपमिव मे भाति युयुधानेन भारती। व्यस्ता सीमन्तिनी ग्रस्ता प्रमृष्टा दीर्घबाहुना
संपूर्मं पूरयन्भूयो धनं पार्थस्य माधवः। शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान्
सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति। तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम्
यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान्। विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान्
तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान्। भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे
निर्दग्धं भीमसेनेन सैन्यं रथहयद्विपम् । गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे
महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः। गदया भीमसेनेन हताः शममुपैष्यथ
महावनमिव च्छिन्नं यदा द्रक्ष्यसि पातितम् । बलं कुरूणां भीमेन तदा स्मर्तासि मे वचः
एतावदुक्त्वा राजा तु सर्वांस्तान्पृथिवीपतीन्। अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम्
ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम्। यजर्जुन उवाच त्वां परं कौतूहलं हि मे
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः। उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय । द्रोणं कृपं च शल्यं च महाराजं च बाह्लिकम्
द्रौणिं च सौमदत्तिं च शकुनिं चापि सौबलम् । दुश्शासनं शलं चैव पुरुमित्रं विविंशतिम्
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम्। विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि पौरवम्
सैन्धवं दुस्सहं चैव भूरिश्रवसमेव च। भगदत्तं च राजानं जलसन्धं च पौरवम्
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं समागताः कौरवाणां प्रियार्थम्। मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते समानीता धार्तराष्ट्रोण सूत
यथान्यायं कुशलं वन्दनं च समागता मद्वचनेन वाच्याः
सहामात्यं सञ्जय श्रावयेथाः
एवं परिष्वज्य धनञ्जयो मां ततोऽर्थवद्धर्मवच्चापि वाक्यम्। प्रोवाचेदं वासुदेवं समीक्ष्य पार्थो धीमाँल्लोहितान्तायताक्षः
यथाश्रुतं ते वदतो महात्मनो यदुप्रवीरस्य वचः समाहितम्। तथैव वाच्यं भवतापि मद्वचः समागतेषु क्षितिपेषु सर्वशः
शराग्निधूमे रथनेमिनादिते धनुस्स्त्रुवेणास्त्रबलापहारिणा । यथा न होमः क्रियते महामृधे तथा समेत्य प्रयतध्वमादृताः
न चेत्प्रयच्छध्वममित्रघातिनो युधिष्ठिरस्यार्धमभीप्सितं स्वकम्। नयामि वः साश्वपदातिकुञ्जरा- न्दिशं पितॄणामशिवां शितैः शरैः
ततोऽहमामन्त्र्य चतुर्भुजं हरिं धनञ्जयं चैव नमस्य सत्वरम्। जवेन संप्राप्त इहामरद्युते तवान्तिकं प्रापयितुं वचो महत्
सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः। ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः। यथावन्मतितत्त्वेन जयकामः सुतान्प्रति
बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान्। `यदा तु मेने भूयिष्ठं तद्वचो गुणदोषतः