तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान्। अहमेकः समादास्ये तिमिर्यत्स्यानिवोदकात्
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् । एतांश्चापि निरोत्स्यामि वेलेव मकरालयम्
तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः। तव धैर्यं च वीर्यं च पाञ्चालः पाण्डवैः सह
सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर । जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम्
समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे । पुरस्तादुपयातानां कौरवाणां युयुत्सताम्
भवत्ता यद्विधातव्यं तन्नः श्रेयः परंतप। सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम्
पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान्। क्रीणीयात्तं सहस्रेण इति नीतिमतां मतम्
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ । भयार्तानां परित्राता संयुगेषु न संशयः
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे। धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम् । सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये
सबाह्लिकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः । सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम्
दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् भीष्मं च ब्रूहि गत्वा त्वमाशु गच्छ च माचिरम्
युधिष्ठिरः साधुनैवाभ्युपेयो मा वोऽवधीदर्जुनो देवगुप्तः। राज्यं दद्ध्वं धर्मराजस्य तूर्णं याचध्वं वै पाण्डवं लोकवीरम्
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन। यथाविधः सव्यसाची पाण्डवः सत्यविक्रमः
देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः । न सजेयोमनुष्येण मा स्म कृद्ध्वं मनो युधि
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः। तेन संयुगमेष्यन्ति मन्दा विलपतो मम
दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम । न हि युद्धं प्रशंसन्ति सर्वावस्थमरिन्दम
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् । प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम
एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् । यत्त्वं प्रशान्तिं मन्येथाः पाण्डुपुत्रैर्महात्मभिः
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् । जात एष तवाभावस्त्वं तु मोहान्न बुद्ध्यसे
न त्वहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः। न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः
न सोमदत्तो न शलो न कृपो युद्धमिच्छति । सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा
येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः । ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम्
न त्वं करोषि कामेन कर्णः कारयिता तव। दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः
नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये। न भीष्मे न काम्भोजे न कृपे न च बाह्लिके
सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः । अन्येषु वा तावकेषु भारं कुत्वा समाह्वयम्
अहं च तात कर्णश्च रणयज्ञं वितत्य वै। युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ
रथो वेदी स्रुवः खङ्गो गदा स्रुक् कवचोऽजिनम् । चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः
आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे। विजित्य च समेष्यावो हतामित्रौ श्रिया वृतौ
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे। एते वयं हनिष्यामः पाण्डवान्समरे त्रयः
अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् । मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमां