सर्वे च पृथिवीपाला मदर्थे तात पाण्डवान्। आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुं
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् । पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत । ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना
महता रथवंशेन शरजालैश्च मामकैः । अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय। न हि शक्तो रमे जेतुं धर्मराजं युधिष्ठिरम्
जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम्। बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम्
यतो नारोचयदयं विग्रहं तैर्महात्मभिः। किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम्
कस्तांस्तरस्विनो भूयः सन्दीपयति पाण्डवान्। अर्चिष्मतो महेष्वासान्हविषा पावकानिव
धृष्टद्युम्नः सदैवैतान्सन्दीपयति भारत। युद्ध्यध्वमिति माभैष्ट युद्धाद्भरतसत्तमाः
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः। युद्धे समागमिष्यन्ति तुमुले शस्त्रसङ्कुले
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान्। अहमेकः समादास्ये तिमिर्यत्स्यानिवोदकात्
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् । एतांश्चापि निरोत्स्यामि वेलेव मकरालयम्
तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः। तव धैर्यं च वीर्यं च पाञ्चालः पाण्डवैः सह
सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर । जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम्
समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे । पुरस्तादुपयातानां कौरवाणां युयुत्सताम्
भवत्ता यद्विधातव्यं तन्नः श्रेयः परंतप। सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम्
पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान्। क्रीणीयात्तं सहस्रेण इति नीतिमतां मतम्
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ । भयार्तानां परित्राता संयुगेषु न संशयः
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे। धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम् । सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये
सबाह्लिकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः । सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम्
दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् भीष्मं च ब्रूहि गत्वा त्वमाशु गच्छ च माचिरम्
युधिष्ठिरः साधुनैवाभ्युपेयो मा वोऽवधीदर्जुनो देवगुप्तः। राज्यं दद्ध्वं धर्मराजस्य तूर्णं याचध्वं वै पाण्डवं लोकवीरम्
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन। यथाविधः सव्यसाची पाण्डवः सत्यविक्रमः
देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः । न सजेयोमनुष्येण मा स्म कृद्ध्वं मनो युधि
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः। तेन संयुगमेष्यन्ति मन्दा विलपतो मम
दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम । न हि युद्धं प्रशंसन्ति सर्वावस्थमरिन्दम
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् । प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम
एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् । यत्त्वं प्रशान्तिं मन्येथाः पाण्डुपुत्रैर्महात्मभिः
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् । जात एष तवाभावस्त्वं तु मोहान्न बुद्ध्यसे
न त्वहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः। न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः