सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः । सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः । योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः। सात्यकिर्द्रुपदश्चैव धृष्टकेतुश्च सानुजः
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः। शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः । विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः
येषांमिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम्। वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि
तान्सर्वगुणसंपन्नानमनुष्यप्रतापिनः । क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ । अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम्
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्। जयद्रथं सोमदत्तमश्वत्थामानमेव च
सुतेजसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः । अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः
सर्वे च पृथिवीपाला मदर्थे तात पाण्डवान्। आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुं
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् । पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत । ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना
महता रथवंशेन शरजालैश्च मामकैः । अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय। न हि शक्तो रमे जेतुं धर्मराजं युधिष्ठिरम्
जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम्। बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम्
यतो नारोचयदयं विग्रहं तैर्महात्मभिः। किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम्
कस्तांस्तरस्विनो भूयः सन्दीपयति पाण्डवान्। अर्चिष्मतो महेष्वासान्हविषा पावकानिव
धृष्टद्युम्नः सदैवैतान्सन्दीपयति भारत। युद्ध्यध्वमिति माभैष्ट युद्धाद्भरतसत्तमाः
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः। युद्धे समागमिष्यन्ति तुमुले शस्त्रसङ्कुले
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान्। अहमेकः समादास्ये तिमिर्यत्स्यानिवोदकात्
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् । एतांश्चापि निरोत्स्यामि वेलेव मकरालयम्
तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः। तव धैर्यं च वीर्यं च पाञ्चालः पाण्डवैः सह
सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर । जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम्
समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे । पुरस्तादुपयातानां कौरवाणां युयुत्सताम्
भवत्ता यद्विधातव्यं तन्नः श्रेयः परंतप। सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम्
पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान्। क्रीणीयात्तं सहस्रेण इति नीतिमतां मतम्
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ । भयार्तानां परित्राता संयुगेषु न संशयः
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे। धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम् । सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये
सबाह्लिकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः । सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम्