दुर्योधनसुताः सर्वे तथा दुःशासनस्य च। सौभद्रेण कृतो भागो राजा चैव बृहद्बलः
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः । धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति। भोजं तु कृतवर्माणं युयुधानो युयुत्सति
सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि। स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम्
उलूकं चैव कैतव्यं ये च सारस्वता गणाः। नकुलः कल्पयामास भागं माद्रवतीसुतः
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति सङ्गरे। समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन्
एवमेषामनीकानि प्रविभक्तानि भागशः। यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम्
न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः। येषां युद्धं बलवता भीमेन रणमूर्धनि
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा । गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम्
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः । तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः । सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः । योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः। सात्यकिर्द्रुपदश्चैव धृष्टकेतुश्च सानुजः
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः। शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः । विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः
येषांमिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम्। वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि
तान्सर्वगुणसंपन्नानमनुष्यप्रतापिनः । क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ । अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम्
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्। जयद्रथं सोमदत्तमश्वत्थामानमेव च
सुतेजसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः । अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः
सर्वे च पृथिवीपाला मदर्थे तात पाण्डवान्। आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुं
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् । पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत । ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना
महता रथवंशेन शरजालैश्च मामकैः । अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय। न हि शक्तो रमे जेतुं धर्मराजं युधिष्ठिरम्
जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम्। बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम्
यतो नारोचयदयं विग्रहं तैर्महात्मभिः। किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम्
कस्तांस्तरस्विनो भूयः सन्दीपयति पाण्डवान्। अर्चिष्मतो महेष्वासान्हविषा पावकानिव
धृष्टद्युम्नः सदैवैतान्सन्दीपयति भारत। युद्ध्यध्वमिति माभैष्ट युद्धाद्भरतसत्तमाः
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः। युद्धे समागमिष्यन्ति तुमुले शस्त्रसङ्कुले