प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान्। अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः
भौमनः सह शक्रेण बहुचित्रं विशांपते। रूपाणि कल्पयामास त्वष्टा धाता सदा विभो
ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया। महाधनानि दिव्यानि महान्ति च लघूनि च
भीमसेनानुरोधायक हनूमान्मारुतात्मजः। आत्मप्रतिकृतिं तस्मिन्ध्वज आरोपयिष्यति
सर्वा दिशो योजनमात्रमन्तरं सतिर्यगूर्ध्वं च रुरोध वै ध्वजः। न संसञ्जेत्तरुभिः संवृतोऽपि तथा हि माया विहिता भौमनेन
यथाऽऽकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च वेद्मि किं नु तत्। तथा ध्वजो विहितो भौमनेन बह्वाकारं दृश्यते रूपमस्य
यथाऽग्निधूमो दिवमेति रुद्ध्वा। वर्णान्बिभ्रत्तैजसांश्चित्ररूपान्। तथा ध्वजो विहितो भौमनेन न चेद्भारो भविता नोत रोधः
हतंहतं दत्तवरं पुरस्तात्
तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीर्यतुल्याः। ऋक्षप्रख्या भीमसेनस्य वाहा रथे वायोस्तुल्यवेग बभूवुः
कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फाल्गुनेन। भ्रातुर्बीरस्य स्वैस्तुरङ्गैर्विशिष्टा मुदा युक्ताः सहदेवं वहन्ति
माद्रीपुत्रं नकुलं त्वाजमीढं महेन्द्रदत्ता हरयो वाजिमुख्याः । समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम्
तुल्याश्चैभिर्वयसा विक्रमेण महाजवाश्रित्ररूपाः सदश्वाः । सौभद्रादीन्द्रौपदेयान्कुमारान् वहन्त्यश्वा देवदत्ता बृहन्तः
कांस्तत्र सञ्जयापश्यः प्रीत्यर्थेन समागतान्। ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम्
मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम्। चेकितानं च तत्रैव युयुधानं च सात्यकिम्
पृथगक्षौहिणीभ्यां तु पाण्डवानभिसंश्रितौ । महारथौ समाख्यातावुभौ पुरुषमानिनौ
अक्षौहिण्याऽथ पाञ्चाल्यो दशभिस्तनयैर्वृतः। सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः। उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च। सूर्यदत्तादिभिर्वीरैर्मदिराक्षपुरोगमैः
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा । अक्षौहिण्यैव सैन्यानां वृतः पार्थं समाश्रितः
जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट्। पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः । अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः
एतानेतावतस्तत्र तानपश्यं समागतान्। ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम्
यो वेद `मानुषं व्यूहं दैवं गान्धर्वमासुरम्। स तत्र सेनाप्रमुखे धृषटद्युम्नो महारथः
भीष्मः शान्तनवो राजन्भागः क्लृप्तः शिखण्डिनः तं विराटोऽनुसंयाता सार्धं मत्स्यैः प्रहारिभिः
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली। तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च। प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः
अर्जुनस्य तु भागेन कर्णे वैकर्तनो मतः। अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः । सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः
महेष्वांसा राजपुत्रा भ्रातरः पञ्च केकयाः । केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे
तेषामेव कृतो भागो मालवाः साल्वकास्तथा। त्रिगर्तानां च वै मुख्यौ यौ तौ संशप्तकाविति