शरव्रातैस्तु भीष्मेण शतशो निचितोऽवशः। द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम्
पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत। ब्रह्मर्पिसदृशो जज्ञे देवैरपि सुदुःसहः
न हन्ता विद्यते चापि राजन्भीष्मस्य कश्चन। पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि
ब्रह्मर्षेश्च भरद्वाजाद्द्रोणो द्रोण्यामजायत। द्रोणाज्जज्ञे महाराज द्रौणिश्च परमाश्त्रवित्
कृपश्चाचार्यमुख्योयं महर्षेर्गौतमादपि । शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः
अयोनिजास्त्रयो ह्येते पिता माता च मातुलः । अश्वत्थाम्नो महारात स च शूरः स्थितो मम
सर्व एते महाराज देवकल्पा महारथाः। शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ
नैतेषामर्जुनः शक्त एकैकं प्रतिवीक्षितुम्। सहितास्तु नरव्याघ्रा हनिष्यन्ति धनञ्जयम्
भीष्माद्रोणकृपाणां च तुल्यः कर्णो मतो मम। अनुज्ञातश्च रामेण मत्समोऽसीति भारत
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे । ते शच्यर्थं महेन्द्रेण याचितः स परन्तपः
अमोघया महाराज शक्त्या परमभीमया। तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः
विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम्। अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः
अह्ना ह्येकेन भीष्मोयं प्रयुतं हन्ति भारत। तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि
संशप्तकानां वृन्दानि क्षत्रियाणां परन्तप। अर्जुनं वयमस्मान्वा निहन्यात्कपिकेतनः
तांश्चालमिति मन्यन्ते सव्यसाचिवधे धृताः। पार्थिवाः स भवांस्तेभ्यो ह्यकस्माद्व्यथते कथम्
भीमसेने च निहते कोऽन्यो युध्येत भारत। परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः । परेषां सप्त ये राजन्योधाः सारं बलं मतम्
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः । द्रौणिर्विकर्तनः कर्णः सोमदत्तोथ बाह्लिकः
प्राग्ज्योतिषाधिपः शल्य आवन्त्यौ च जयद्रथः। दुःशासनो दुर्मखश्च दुःसहश्च विशांपते
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः। शलो भूरिश्रवाश्चैव विकर्णश्च तवात्मजः
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः। न्यूना परेषां सप्तैव कस्मान्मे स्यात्पराजयः
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः। परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी
गुणहीनं परेषां च बहु पश्यामि भारत। गुणोदयं बहुगुणमात्मनश्च विशांपते
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत । न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत। विवित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय। किंस्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः
अतीव मुदितो राजन्युद्धप्रेप्युर्युधिष्ठिरः। भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः
रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः। मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत्
तमपश्याम सन्नद्धं मेघं विद्युद्युतं यथा। समन्तात्समभिध्या हृष्यमाणोऽभ्यभाषत। पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय
बीभत्सुर्मां यथोवाच तथाऽवैम्यहमप्युत