ळशक्तस्तु क्षमते नित्यमशक्तः क्रुध्यते नरः। दुर्जनः सुजनं द्वेष्टि दुर्बलो बलवत्तरम्
रूपवन्तमरूपी च धनवन्तं च निर्धनः। अकर्मी कर्मिणं द्वेष्टि धार्मिकं च नधार्मिकः
निर्गुणो गुणवन्तं च पुत्रैतत्कलिलक्षणम्। विपरीतं च राजेन्द्र एतेषु कृतलक्षणम्
ब्राह्मणो वाथ वा राजा वैश्यो वा शूद्र एव वा। प्रशस्तेषु प्रसक्ताश्चेत्प्रशस्यन्ते यशस्विनः
तस्मात्प्रशस्ते राजेन्द्र नरः सक्तमना भवेत्। अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः
त्वं हि धर्मविदो राजन्कत्थसे धर्मसुत्तमम्। कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम्
अक्रोधनः क्रोधनेभ्यो विशिष्ट- स्तथा तितिक्षुरतितिक्षोर्विशिष्टः। अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः
आक्रुश्यमानो नाकोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत। ययाऽस्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम्
अरुन्तुदं पुरुषं तीक्ष्णवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यन्। विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वहन्तम्
सद्भिः पुरस्तादभिपूजितः स्या- त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात्। सदाऽसतामतिवादांस्तितिक्षे- त्सतां वृत्तं चाददीतार्यवृत्तः
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि। परस्य ये मर्मसु संपतन्ति तान्पण्डितो नावसृजेत्परेषु
नहीदृशं संवननं त्रिषु लोकेषु विद्यते। दया मैत्री च भूतेषु दानं च मधुरा च वाक्
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्। पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन
सर्वाणि कर्माणि समाप्य राजन् गृहं परित्यज्य वनं गतोऽसि। तत्त्वां पृच्छामि नहुषस्य पुत्र केनासि तुल्यस्तपसा ययाते
नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु। आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव
यदाऽवमंस्थाः सदृशः श्रेयसश्च अल्पीयसश्चाविदितप्रभावः। तस्माल्लोकास्त्वन्तवन्तस्तवे मे क्षीणे पुण्ये पतिताऽस्यद्य राजन्
सुरर्षिगन्धर्वनरावमाना- त्क्षयं गता मे यदि शक्रलोकाः। इच्छाम्यहं सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज
सतां सकाशे पतिताऽसि राजं- श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः। एतद्विदित्वा च पुनर्ययाते त्वं माऽवमंस्थाः सदृशः श्रेयसश्च
ततः प्रहायामरराजजुष्टा- न्पुण्याँल्लोकान्पतमानं ययातिम्। संप्रेक्ष्य राजर्षिवरोऽष्टकस्त- मुवाच सद्धर्मविधानगोप्ता
कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाऽग्निः। पतस्युदीर्णाम्बुधरान्धकारा- त्खात्खेचराणां प्रवरो यथाऽर्कः
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम्। किं नु स्विदेतत्पततीति सर्वे वितर्कयन्तः परिमोहिताः स्मः
दृष्ट्वा च त्वां धिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम्। अभ्युद्गतास्त्वां वयमद्य सर्वे तत्त्वं प्रपाते तव जिज्ञासमानाः
न चापि त्वां धृष्णुमः प्रष्टुमग्रे न च त्वमस्मान्पृच्छसि ये वयं स्मः। तत्त्वां पृच्छामि स्पृहणीयरूप कस्य त्वं वा किंनिमित्तं त्वमागाः
भयं तु ते व्येतु विषादमोहौ त्यजाशु चैवेन्द्रसमप्रभाव। त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलहाऽपि शक्रः
सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प। ते सङ्गताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः। प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः
अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात्। प्रभ्रंशितः सुरसिद्धर्षिलोका- त्परिच्युतः प्रपताम्यल्पपुण्यः
अहं हि पूर्वो वयसा भवद्भ्य- स्तेनाभिवादं भवतां न प्रयुञ्जे। यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम्
अवादीस्त्वं वयसा यः प्रवृद्धः स वै राजन्नाभ्यधिकः कथ्यते च। यो विद्यया तपसा संप्रवृद्धः स एव पूज्यो भवति द्विजानाम्