अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप। मदर्थं पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम्। विलपन्तं बहुविधं भीतं परविकत्थने
एषां ह्येकैकशो राज्ञां समर्थं पाण्डवान्प्रति । आत्मानं मन्यते सर्वो व्येतु ते भयमागतम्
जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात्। हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयंभुवः
युधिष्ठिरः पुरं हित्वा पञ्चग्रामान्स याचते। भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे विभो
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम्। तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन। नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन
युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा। तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित्
दुर्योधनसमो नास्ति गदायामिति निश्चयः। सङ्कर्षणस्य भवने यत्तदैनमुपावसम्
युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि। गदाप्रहारं भीमो मे न जातु विषहेद्युधि
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप। स एवैनं नयोद्धोरः क्षिप्रं वैवस्वतक्षयम्
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम्। सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः
गदया निहतो ह्याजौ मया पार्थो वृकोदरः । विशीर्णगावः पृथिवीं परासुः प्रपतिष्यति
गदाप्रहाराभिहतो हिमवानपि पर्वतः। सकृन्मया विदीर्येत गिरिः शतसहस्रधा
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा। दुर्योधनसमो नास्ति गदायामिति निश्चयः
तत्ते वृकोदरमयं भयं व्येतु महाहवे। व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः । तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा । प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान्। समेतास्तु क्षणेनैतान्नेष्यन्ति यमसादनम्
समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम्। कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते
शरव्रातैस्तु भीष्मेण शतशो निचितोऽवशः। द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम्
पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत। ब्रह्मर्पिसदृशो जज्ञे देवैरपि सुदुःसहः
न हन्ता विद्यते चापि राजन्भीष्मस्य कश्चन। पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि
ब्रह्मर्षेश्च भरद्वाजाद्द्रोणो द्रोण्यामजायत। द्रोणाज्जज्ञे महाराज द्रौणिश्च परमाश्त्रवित्
कृपश्चाचार्यमुख्योयं महर्षेर्गौतमादपि । शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः
अयोनिजास्त्रयो ह्येते पिता माता च मातुलः । अश्वत्थाम्नो महारात स च शूरः स्थितो मम
सर्व एते महाराज देवकल्पा महारथाः। शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ
नैतेषामर्जुनः शक्त एकैकं प्रतिवीक्षितुम्। सहितास्तु नरव्याघ्रा हनिष्यन्ति धनञ्जयम्
भीष्माद्रोणकृपाणां च तुल्यः कर्णो मतो मम। अनुज्ञातश्च रामेण मत्समोऽसीति भारत
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे । ते शच्यर्थं महेन्द्रेण याचितः स परन्तपः