प्रत्यादनं च राज्यस्य कार्यमूचुर्नराधिपाः । भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः
श्रुत्वा चैवं मयोस्तास्तु भीष्मद्रोणकृपास्तदा। ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ
ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः। समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति
ऋते च विदुरात्सर्वे यूयं वध्या मता मम। धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः। एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम्। प्राणान्वा संपरित्यज्य प्रतियुध्यामाहे परान्
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः। युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः। धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः
प्रणिपाते न दोषोस्ति सन्धिर्नः शाश्वतीः समाः। पितरं त्वेव शोचामि प्रज्ञानेत्रं जनाधिपम्
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम्। कृतं हि तव पुत्रैश्च परेषामवरोधनम् । मत्प्रयार्थं पुरैवैतद्विदितं ते नरोत्तम
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः । वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत। मत्वा मां महतीं चिन्तामास्थितंव्यथितेन्द्रियं
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप। असमर्थाः परे जेतुमस्मान्युधि समास्थितान्
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान्। आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः। मृते पितर्यतिक्रुद्धो रथेनैकेन भारत
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः। ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात्
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे। परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ
इत्येषां निश्चयो ह्यासीत्तत्कालेऽमिततेजसाम्। पुरा तेषां पृथिवी कृत्स्नासीद्वशवर्तिनी
अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे। छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ। एकार्थाः सुखदुःखेषु समानीताश्च पार्थिवाः
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप। मदर्थं पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम्। विलपन्तं बहुविधं भीतं परविकत्थने
एषां ह्येकैकशो राज्ञां समर्थं पाण्डवान्प्रति । आत्मानं मन्यते सर्वो व्येतु ते भयमागतम्
जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात्। हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयंभुवः
युधिष्ठिरः पुरं हित्वा पञ्चग्रामान्स याचते। भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे विभो
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम्। तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन। नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन
युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा। तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित्
दुर्योधनसमो नास्ति गदायामिति निश्चयः। सङ्कर्षणस्य भवने यत्तदैनमुपावसम्
युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि। गदाप्रहारं भीमो मे न जातु विषहेद्युधि