बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता। मयेदं कृतमित्येव मन्यसे राजसत्तम
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि। आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत्। पाण्डवेषु वने राजन्प्रव्रजत्सु पुनःपुनः
प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून्। अप्यर्णवा विशुष्येयुः किं पुनर्मासयोनयः
अस्यतां फाल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम्। केशवः सर्वभूतानामायुधानां सुदर्शनम् । वानरो रोचमानश्च केतुः केतुमतां वरः
एवमेतानि स रथो वहते सह यो रणे। क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम्
तस्याद्य वसुधा राजन्निखिला भरतर्षभ। यस्य भीमार्जिनौ योधौ स राजा राजसत्तम
तथा भीमहतप्रायां मञ्जन्तीं तव वाहिनीम् । दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः
न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो। तव पुत्रा महाराज राजानश्चानुसारिणः
मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः। साल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते
पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः। भक्त्या ह्यस्य विरुध्यन्ते तव पुत्रैः सदैव ते
अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा। योऽक्लेशयत्पाण्डुपुत्रान्यो विद्वेष्ट्यधुनापि वै
सर्वोपायैर्नियन्तव्यः सानुगः पापपुरुषः। तव पुत्रो महाराज नानुशोचितुमर्हसि
अपरोहं महाराज साक्षाच्चैनं ब्रवीम्यहम्। द्यूतकाले मया चोक्तं विदुरेण च धीमता
यदिदं ते विलपितं पाण्डवान्प्रति भारत। अनीशेनैव राजेन्द्र सर्वमेतन्निरर्थकम्
न भेतव्यं महाराज न शोच्या भवतां वयम्। समर्थाः स्म पराञ्जेतुं बलिनः समरे विभो
वने प्रव्राजितान्पार्थान्यदायान्मधुसूदनः । महता बलचक्रेण परराष्ट्रावमर्दिना
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षत। राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः । व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम्। कृष्णप्रधानाः संहत्य पर्युपासन्त भारत
प्रत्यादनं च राज्यस्य कार्यमूचुर्नराधिपाः । भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः
श्रुत्वा चैवं मयोस्तास्तु भीष्मद्रोणकृपास्तदा। ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ
ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः। समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति
ऋते च विदुरात्सर्वे यूयं वध्या मता मम। धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः। एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम्। प्राणान्वा संपरित्यज्य प्रतियुध्यामाहे परान्
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः। युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः। धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः
प्रणिपाते न दोषोस्ति सन्धिर्नः शाश्वतीः समाः। पितरं त्वेव शोचामि प्रज्ञानेत्रं जनाधिपम्
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम्। कृतं हि तव पुत्रैश्च परेषामवरोधनम् । मत्प्रयार्थं पुरैवैतद्विदितं ते नरोत्तम