समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान्। शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान्
धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः । मामकेषु रणं कर्ता बलेषु परमास्त्रवित्
युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात्। मयाभ्यां भीमसेनाच्च भयं मे तात जायते
अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा । न मे सैन्यास्तरिष्यन्ति ततः क्रोशामि सञ्जय
दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी। मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः
मित्रामात्यैः सुसंपन्नः संपन्नो युद्धयोजकैः । भ्रातृभिः श्वशुरैर्वीरैरुपपन्नो महारथैः
धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः। अनुशंसो वदान्यश्च हीमान्सत्यपराक्रमः
बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः । तं सर्वगुणसंपन्नं समिद्धमिव पावकम्
तपन्तमभि को मन्दः पतिष्यति पतङ्गवत्। पाण्डवाग्निमनावार्यं मुमूर्षुर्नष्टचेतनः
तनुरुच्चः शिखी राजा मिथ्योपचरितो मया। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत। युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम्
एषा मे परमा बुद्धिर्यया शाम्यति मे मनः । यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे
न तु नः क्लिश्यमानानामुपेक्षेत युधिष्ठिरः। जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम्
एवमेतन्महाराज यथावदसि भारत। युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते
इदं तु नाभिजानामि तव धीरस्य नित्यशः। यत्पुत्रवशमागच्छेस्तत्त्वज्ञः सव्यसाचिनः
नैष कालो महाराज तव शश्वत्कृतागसः। त्वया ह्येवादितः पार्था निकृता भरतर्षभ
पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान्। आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते
इदं जितमिदं लब्धमिति श्रुत्वा पराजितान्। द्यूतकाले महाराज स्मरसे स्म कुमारवत्
परुषाण्युच्यमानांश्च पुरा पार्थानुपेक्षसे। कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि
पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः। अथ वीरैर्जितामुर्वीमखिलां प्रत्यपद्यथाः
बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता। मयेदं कृतमित्येव मन्यसे राजसत्तम
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि। आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत्। पाण्डवेषु वने राजन्प्रव्रजत्सु पुनःपुनः
प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून्। अप्यर्णवा विशुष्येयुः किं पुनर्मासयोनयः
अस्यतां फाल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम्। केशवः सर्वभूतानामायुधानां सुदर्शनम् । वानरो रोचमानश्च केतुः केतुमतां वरः
एवमेतानि स रथो वहते सह यो रणे। क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम्
तस्याद्य वसुधा राजन्निखिला भरतर्षभ। यस्य भीमार्जिनौ योधौ स राजा राजसत्तम
तथा भीमहतप्रायां मञ्जन्तीं तव वाहिनीम् । दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः
न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो। तव पुत्रा महाराज राजानश्चानुसारिणः
मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः। साल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते